पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८५१
एकनवतितमः सर्गः


सोऽभिनिष्क्रम्य नगरादिन्द्रजित् परवीरहा । अभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ॥ १२
ततो रथस्थमालोक्य सौमित्री रावणात्मजम् । वानराश्च महावीर्या राक्षसश्च विभीषणः ॥ १३
विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः । रावणिश्चापि संक्रुद्धा रणे वानरयूथपान् ॥ १४
पातयामास बाणौघैः शतशोऽथ सहस्रशः । स मण्डलीकृतधनू रावणिः समितिंजयः ॥ १५
हरीनभ्यहनत् क्रुद्ध: परं लाघवमास्थितः । ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः ॥ १६
सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजा: । ततः समरकोपेन ज्वलितो रघुनन्दनः ॥ १७
चिच्छेद कार्मुकं तस्य दर्शयन् पाणिलाघवम् । सोऽन्यत् कार्मुकमादाय सज्यं चक्रे त्वरन्निव ॥
तदप्यस्य त्रिभिर्वाणैर्लक्ष्मणो निरकृन्तत । अथैनं छिन्नधन्वानमाशीविषविषोपमैः ॥ १९
विव्याधोरसि सौमित्री रावणिं पञ्चभि: शरै: । ते तस्य कायं निर्भिद्य महाकार्मुकनि:सृताः ॥
निपेतुर्धरणीं बाणा रक्ता इव महोरगाः । स भिन्नवर्मा रुधिरं वमन् वक्त्रेण रावणिः ॥ २१
जग्राह कार्मुकश्रेष्ठं दृढज्यं बलवत्तरम् । स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः ॥ २२
ववर्ष शरवर्षाणि वर्षाणीव पुरंदर: । मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः ॥ २३
अवारयदसभ्रान्तो लक्ष्मणः सुदुरासदम् । दर्शयामास च तदा रावणिं रघुनन्दनः ॥ २४
असंभ्रान्तो महातेजास्तदद्भुतमिवाभवत् । ततस्तान् राक्षसान् सर्वास्त्रिभिरेकैकमाहवे ॥ २५
अविध्यत् परमक्रुद्ध: शीघ्रास्त्रं संप्रदर्शयन् । राक्षसेन्द्रसुतं चापि बाणौघैः समताडयत् ॥ २६
सोऽतिविद्धो बलवता शत्रुणा शत्रुघातिना । असक्तं प्रेषयामाम लक्ष्मणाय बहूञ्शरान् ॥ २७
तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद रघुनन्दनः । सारथेरस्य च रणे रथिनो रथसत्तमः ॥ २८
शिरो जहार धर्मात्मा भल्लेनानतपर्वणा । असूतास्ते हयास्तत्र रथमूहुरविल्लवाः ॥ २९
मण्डलान्यभिधावन्तस्तदद्भुतमिवाभवत् । अमर्षवशमापन्नः सौमित्रिर्दृढविक्रमः ॥ ३०
प्रत्यविध्यद्धयांस्तस्य शरैर्वित्रासयन् रणे । अमृष्यमाणस्तत्कर्म रावणस्य सुतो बली ॥ ३१
विव्याध दशभिर्बाणैः सौमित्रिं तममर्षणम् । ते तस्य वज्रप्रतिमाः शराः सर्पविषोपमाः ॥ ३२
विलयं जग्मुराहत्य कवचं काञ्चनप्रभम् । अभेद्यकवचं मत्वा लक्ष्मणं रावणात्मजः ॥ ३३
ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित् । अविध्यत् परमक्रुद्धः शीघ्रास्त्रं च प्रदर्शयन् ॥ ३४
तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः । रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः ॥ ३५
स तथा ह्यर्दितो बाणै राक्षसेण महामृधे । तमाशु प्रतिविव्याध लक्ष्मणः पञ्चभिः शरैः ॥ ३६
विकृष्येन्द्रजितो युद्धे वदने शुभकुण्डले । लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ ॥ ३७
अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ । ततः शोणितदिग्धाङ्गौ लक्ष्मणेन्द्रजितावुभौ ॥ ३८
रणे तौ रेजतुर्वीरौ पुष्पिताविव किंशुकौ । तौ परम्परमभ्येत्य सर्वगात्रेषु धन्विनौ ॥ ३९