पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


स यन्तरि महातेजा हते मन्दोदरीसुतः । स्वयं सारथ्यमकरोत् पुनश्च धनुरस्पृशत् ॥ ४३
तदद्भुतमभूत्तत्र सामर्थ्यं पश्यतां युधि । हयेषु व्यग्रहस्तं तं विव्याध निशितैः शरैः ॥ ४४
धनुष्यथ पुनर्व्यग्रे हयेषु मुमुचे शरान् । छिद्रेषु तेषु बाणेषु सौमित्रिः शीघ्रविक्रमः ॥ ४५
अर्दयामास बाणौधैर्विचरन्तमभीतवत् । निहतं सारथिं दृष्ट्वा समरे रावणात्मजः ॥ ४६
प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह । विषण्णवदनं दृष्टा राक्षसं हरियूथपाः ॥ ३७
ततः परमसंहृष्टा लक्ष्मणं चाभ्यपूजयन् । ततः प्रमाथी शरभो रभसो गन्धमादनः ॥ ३८
अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः । ते चास्य हयमुख्येषु तूर्णमुत्प्लुत्य वानराः ॥ ३९
चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः । तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः ॥ ४०
मुखेभ्यो रुधिरं रक्तं हयानां समवर्तत । ते हया मथिता भग्ना व्यसवो धरणीं गताः ॥ ५१
ते निहत्य हयांस्तस्य प्रमथ्य च महारथम् । पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः ॥ ५२
स हताश्वादवप्लुत्य स्थान्मथितसारथेः । शरवर्षेण सौमित्रिमभ्यधावत रावणिः ॥ ४३
ततो महेन्द्रप्रतिमः स लक्ष्मणः पदातिनं तं निशितैः शरोत्तमैः ॥
सृजन्तमाजौ निशिताञ्शरोत्तमान् भृशं तदा बाणगणैर्न्यवारयत् ॥ ४४

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे सौमित्रिरावणियुद्धं नाम नवतितमः सर्ग:

एकनवतितमः सर्गः
रावणिवधः

स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः । इन्द्रजित् परमक्रुद्धः संप्रजज्वाल तेजसा ॥ १
तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम् । विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव ॥ २
निबर्हयन्तश्चान्योन्यं ते राक्षसक्नौकसः । भर्तारं न जहुर्युद्धे संपतन्तस्ततस्ततः ॥ ३
ततस्तान् राक्षसान् सर्वान् हर्षयन् रावणात्मजः । स्तुवानो हर्षमाणश्च इदं वचनमब्रवीत् ॥ ४
तमसा बहुलेनेमाः संसक्ताः सर्वतो दिशः । नेह विज्ञायते स्वो वा परो वा राक्षसोत्तमाः ॥ ५
धृष्टं भवन्तो युध्यन्तु हरीणां मोहनाय वै । अहं तु रथमास्थाय आगमिष्यामि संयुगम् ॥ ६
तथा भवन्तः कुर्वन्तु यथेमे काननौकसः । न युध्येयुर्दुरात्मानः प्रविष्टे नगरं मयि ॥ ७
इत्युक्त्वा रावणसुतो वञ्चयित्वा वनौकसः । प्रविवेश पुरीं लङ्कां रथहेतोरमित्रहा ॥ ८
स रथं भूषयित्वा तु रुचिरं हेमभूषितम् । प्रासासिशतसंपूर्णं युक्तं परमवाजिभिः ॥ ९
अधिष्ठितं हयज्ञेन सूतेनाप्तोपदेशिना । आरुरोह महातेजा रावणिः समितिंजयः ॥ १०
स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः । निर्ययौ नगरात्तूर्णं कतान्तबलचोदितः ॥ ११