पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४८
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः । तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ॥ ३६
सपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ । चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः ॥ ३७
इन्द्रजिल्लक्ष्मणश्चैव परस्परवधैषिणौ । लक्ष्मणो रावणिं युद्ध रावणिश्चापि लक्ष्मणम् ॥ ३८
अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् | बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ ॥ ३९
शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ । तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम् ॥ ४०
बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः । तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः ॥
न च तौ युद्धवैमुख्यं श्रमं वाप्युपजम्मतुः ॥
अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य ।
प्रियहितमुपपादयन्महौजाः समरमुपेत्य विभीषणोऽवतस्थे ॥ ४२

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायां
युद्धकाण्डे सौमित्रिसंधुक्षणं नाम एकोननवतितमः सर्ग:

नवतितमः सर्गः
सौमित्रिरावणियुद्धम्

युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ । प्रभिन्नाविव मातङ्गौ परम्परवधैषिणौ ॥ १
तौ द्रष्टुकामः संग्रामे परम्परगतौ बली । शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि ॥ २
ततो विम्फारयामास महद्धनुरवस्थितः । उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान् ॥ ३
ते शराः शिखिसंकाशा निपतन्तः समाहिताः । राक्षसान् दारयामासुर्वज्राणीव महागिरीन् ॥
विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः । चिच्छिदुः समरे वीरान् राक्षसान् राक्षसोत्तमा ॥
राक्षसैस्तैः परिवृतः स तदा तु विभीषणः । बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः ॥ ६
ततः संचोदयानो वै हरीन् रक्षोरणप्रियान् । उवाच वचनं काले कालज्ञो रक्षसां वरः ॥ ७
एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः । एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः ॥ ८
अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि । रावणं वर्जयित्वा तु शेषमस्य हतं बलम् ॥ ९
प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः । कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः ॥ १०
जम्बुमाली महामाली तीक्ष्णवेगोऽशनिप्रभः । सुप्तघ्नो यज्ञकोपश्च वज्रदंष्ट्रश्च राक्षसः ॥ ११
सह्रादी विकटो निघ्नस्तपनो दम एव च । प्रघासः प्रघसश्चैव प्रजङ्गो जङ्घ एव च ॥ १२
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च वीर्यवान् । विद्युज्जिह्वो द्विजिह्वश्च सूर्यशत्रुश्च राक्षसः ॥ १३
अकम्पनः सुर्पार्श्वश्च चक्रमाली च राक्षसः । कम्पनः सत्त्ववन्तौ तौ देवान्तकनरान्तकौ ॥
एतान्निहत्यातिबलान् बहून् राक्षससत्तमान् । बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु ।।