पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४७
एकोननवतितमः सर्गः


सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः । अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ॥ ८
किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् । निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ॥ ९
युवां खल महायुद्धे शक्राशनिसमैः शरैः। शायितौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ ॥ १०
स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् । गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि ॥
यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः । अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ॥ १२
इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् । दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ॥ १३
ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् । क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम् १४
तद्दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा । अचिन्तयित्वा प्रहसन्नैतत् किंचिदिति ब्रुवन् ॥ १५
मुमोच स शरान् घोरान् संगृह्य नरपुंगवः । अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि ॥ १६
नैवं रणगताः शूराः प्रहरन्ते निशाचर । लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव ॥ १७
नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः । इत्येवं तं ब्रुवाणसतु शरवर्षैरवाकिरत् ॥ १८
तस्य बाणैः सुविध्वस्तं कवचं हेमभूषितम् । व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥ १९
विधूतवर्मा नाराचैर्बभूव स कृतव्रणः । इन्द्रजित् समरे वीरः प्ररूढ इव सानुमान् ॥ २०
ततः शरसहस्रेण संक्रुद्धो रावणात्मजः । बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः ॥ २१
व्यशीर्यत महादिव्यं कवचं लक्ष्मणम्य च । कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥ २२
अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं युधि । शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥ २३
सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः । ततक्षतुर्महात्मनौ रणकर्मविशारदौ ॥ २४
बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ । तौ शरौघैस्तदा कीर्णौ निकृत्तकवचध्वजौ ।। २५
स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव । शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम् ॥ २६
सासारयोरिवाकाशे नीलयोः कालमेघयोः । तयोरथ महान् कालो व्यत्ययाद्युध्यमानयोः ।। २७
न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः । अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः ॥२८
शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः । व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च ॥ २९
उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ । तयोः पृथक् पृथक् भीमः शुश्रुवेतलनिस्वनः ॥ ३०
प्रकम्पयज्जनं घोरो निर्घात इव दारुणः । स तयोर्भ्राजते शब्दस्तदा समरसक्तयोः ॥ ३१
सुघोरयोर्निष्टनतोर्गगने मेघयोर्यथा । सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ ॥ ३२
प्रसुस्रुवाते रूधिरं कीर्तिमन्तौ जये धृतौ । ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि ॥ ३३
असृङ्नद्धा विनिष्पत्य विविशुर्धरणीतलम् । अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे ॥ ३४
बभञ्जुश्चिच्छिदुश्चान्ये तयोर्बाणाः सहस्रशः । स बभूव रणे घोरस्तयोर्बाणमयश्चयः ॥ ३५