पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/९०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

कुरु तत् कर्म येनाहं श्रद्द्ध्यां तव कत्थनम् । अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन् ॥ ३०
अविकत्थन् वधिष्यामि त्वां पश्य पुरुषाधम । इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान्शितान् ॥
निजघान महावेगाँल्लक्ष्मणो राक्षसोरसि । सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः ॥ ३२
नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा । स शरैराहतस्तेन सरोषो रावणात्मजः ॥ ३३
सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम् । स बभूव तदा भीमो नरराक्षससिंहयोः ॥ ३४
विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः । उभौ हि बलसंपन्नावुभौ विक्रमशालिनौ ॥ ३५
उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ । उभौ परमदुर्जेयावतुल्यबलतेजसौ ॥ ३६
युयुधाते तदा वीरौ ग्रहाविव नभोगतौ । बलवृत्राविवाभीतौ युधि तौ दुष्प्रधर्षणौ ॥ ३७
युयुधाते महात्मानौ तदा केसरिणाविव । बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ ॥ ३८
नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम् ॥
सुसंप्रहृष्टौ नरराक्षसोत्तमौ जयैषिणौ मार्गणचापधारिणौ ।
परस्परं तौ प्रववर्षतुर्भृशं शरौघवर्षेण बलाहकाविव ॥ ३९

अभिप्रवृद्धौ युधि युद्धकोविदौ शरासिचण्डौ शितशस्त्रधारिणौ ।
अभीक्ष्णमाविव्यधतुर्महाबलौ महाहवे शम्बरवासवाविव ॥ ४०

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे सौमित्रिरावणियुद्धं नाम अष्टाशीतितमः सर्ग:

एकोननवतितमः सर्गः
सौमित्रिसंधुक्षणम्

ततः शरं दाशरथिः संधायामित्रकर्शनः । ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥ १
तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः । विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥ २
तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् । सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ॥ ३
निमित्तान्यनुपश्यामि यान्यस्मिन् रावणात्मजे । त्वर नेन महाबाहो भग्न एष न संशयः ॥ ४
ततः सन्धाय सौमित्रिर्बाणानग्निशिखोपमान् । मुमोच निशितांस्तस्मिन् सर्पानिव महाविषान् ॥
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः । मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ॥ ६
उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः । ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ॥ ७