पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८३४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

अन्तरिक्षे समासाध्य रावणिं कङ्कपत्रिणः । निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥ ३०
अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ । तानिषून् पततो भल्लैरनेकैर्निचकृन्ततुः ।। ३१
यतो हि ददृशाते तो शरान्निपततः शितान् । ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम्।। ३२
रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् । विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः॥ ३३
तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः । बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ ३४
नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् । न चान्यद्विदितं किंचित् सूर्यस्येवाभ्रसंप्लवे।। ३५
तेन विद्धाश्च हरयो निहताश्च गतासवः । बभूवुः शतशस्तत्र पतिता धरणीतले ॥ ३६
लक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत् । ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थ सर्वरक्षसाम् ॥ ३७
तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् । नैकम्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ।। ३८
अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् । पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ।। ३९
अस्यैव तु वधे यत्नं करिष्यावो महाबल । आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ ४०
तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् । राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ।। ४१
यद्येष भूमिं विशते दिवं वा रसातलं वापि नभःस्थलं वा ।
एवं निगृढोऽपि ममास्त्रदग्धः पतिष्यते भूमितले गतासुः ।। ४२
इत्येवमुक्त्वा वचनं महात्मा रघुवीर: प्लवगर्षभैर्वृतः ।
वधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ।। ४३
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे तिरोहितरावणियुद्धं नाम अशीतितमः सर्गः

एकाशीतितमः सर्गः
मायासीतावधः
विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । संनिवृत्याहवात्तस्मात् संविवेश पुरं ततः ।। १
सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् । क्रोधताम्रेक्षणः शूरो निर्जगाम महाध्युतिः ॥ २
स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः । इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ।। ३
इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥ ४
इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः । बलेन महतावृत्य तस्या वधमरोचयत् ।। ५
मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः । हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥ ६
तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः । उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः ।। ७