पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अशीतितमः सर्गः

कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् । आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ॥ २
जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ । अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ ३
त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे। किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ।। ४
तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः । यज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित् ।। ५
जुहतश्चापि तत्राग्निं रक्तोष्णीपधराः स्त्रियः । आजग्मुस्तत्र संभ्रान्ना राक्षम्यो यत्र रावणिः ॥६
शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः । लोहितानि च वासांसि स्रुवं कार्प्णायसं तथा ।। ७
सर्वतोऽग्निं समास्तीर्य शरपत्रै सतोमरैः। छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ।। ८
शरहोमसमिद्धस्य विधूमस्य महार्चिषः । बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ ९
प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः । हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः ॥१०
हुत्वाग्निं तर्पयित्वा च देवदानवराक्षसान् । आरुरोह स्थश्रेष्ठमन्तर्धानगतं शुभम् ।। ११
स वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः । आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥ १२
जाज्वल्यमानो वपुषा तपनीयपरिच्छदः । मृगैश्चन्द्रार्धचन्द्रश्च स रथः समलंकृतः ।। १३
जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः । वभूवेन्द्रजितः केतुर्वैढूर्यसमलंकृतः ।। १४
तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः। म बभूव दुराधर्षो रावणिः सुमहाबलः ॥ १५
सोऽभिनिर्याय नगरादिन्द्रजित् समितिंजयः । हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ १६
अद्य हत्वा रणे यौ तौ मिथ्याप्रव्रजितौ वने । जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ॥ १७
अद्य निर्वानरामुर्वीं हत्त्वा रामं सलक्ष्मणम् । करिष्ये परमप्रीतिमित्युक्त्वान्तरधीयत ।। १८
आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः । तीक्ष्णकार्मुकनाराचैस्तीक्ष्णैस्त्विन्द्ररिपू रणे ।। १९
स ददर्श महावीर्यो नागौ त्रिशिरसाविव । सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ।। २०
इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम्। संततानेषुधाराभिः पर्जन्य इव वृष्टिमान् || २१
स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ। अचक्षुर्विषये तिष्ठन् विव्याध निशितैः शरैः ॥ २२
तो तस्य शरवेगेन परीतौ रामलक्ष्मणौ । धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ।। २३
प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ । तमस्त्रैः सूर्यसकाशैर्नैव पस्पृशतुः शरैः ।। २४
स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः । दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृताः ॥ २५
नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः । शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ २६
घनान्धकारे तिमिरे शिलावर्षमिवाद्भुतम् । स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ।। २७
स रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम् । विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ।।
तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ । हेमपुङ्खान्नरव्याघ्रो तिग्मान् मुमुचतुः शरान् ।। २९