पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८३०
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

नैर्ऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः । खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ।। २
गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः । राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः ।। ३
रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः । बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरः ।। ४
सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् । निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ॥५
समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् । रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात् ॥ ६
तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः । स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ।। ७
प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः। सूतं संचोदयमास शीघ्रं मे रथमावह ।। ८
अथ तान् राक्षसान् सर्वान् मकराक्षोऽब्रवीदिदम् । यूयं सर्वे प्रयुध्यध्वे पुरस्तान्मम राक्षसाः ।। ९
अहं राक्षसराजेन रावणेन महात्मना । आज्ञ्प्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ।। १०
अद्य रामं वधिष्यामि लक्ष्मणं च निशाचरः। शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥११
अद्य शूलनिपातैश्च वानराणां महाचमूम् । प्रदहिष्यामि संप्राप्तः शुष्केन्धनमिवानलः ।। १२
मकराक्षस्य तच्छृत्वा वचनं ते निशाचराः । सर्वे नानायुधोपता बलवन्तः समागताः ॥ १३
ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः । मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः॥१४
परिवार्य महाकाबा महाकाया खरात्मजम् । अभिजामुस्ततो
 हष्टाश्चालयन्तो वसुंधराम् ॥ १५
शङ्खभेरीसहस्राणामाहतानां समन्ततः । क्ष्वेलितास्फोटितानां च ततः शब्दां महानभूत् ॥ १६
प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा। पपात सहसा चैव ध्वजस्तस्य च रक्षसः ।। १७
तस्य ते रथयुक्ताश्च हया विक्रमवर्जिताः। चरणैराकुलैर्गत्वा दीनाः सास्रमुखाययुः ।। १८
प्रवाति पवनस्तस्मिन् सपांसुः खरदारुणः । निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ।। १९
तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः । अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ।। २०
घनराजमहिषाङ्गतुल्यवर्णाः समरसुखेष्वसकृद्गदासिभिन्नाः ।
अहमहमिति युद्धकौशलास्ते रजनिचराः परिबभ्रमुर्वदन्तः ।। २१
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे मकराक्षाभिषेणनं नाम अष्टसप्ततितमः सर्ग:


एकोनाशीतितमः सर्गः
मकराक्षवधः
निर्गतं मकराक्षं ते दृष्ट्वा वानरयूथपाः । आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः ॥ १