पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टसप्ततितमः सर्गः
८२९

नगर्या विटपावत्या गन्धर्वभवनोत्तमैः । सह चैवामरावत्या सर्वेश्च भवनैः सह ॥ ८
सतारग्रहनक्षत्रं सचन्द्रं समहाग्रहम् । निकुम्भपरिघाघूर्णं भ्रमतीव नभःस्थलम् ।। ९
दुरासदश्च संजज्ञे परिघाभरणप्रभः । कपीनां स निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः ।। १०
राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात् । हनुमांस्तु विवृत्योरस्तस्थौ तस्याग्रतो बली ॥ ११
परिघोषमबाहुस्तु परिघं भास्करप्रभम् । बली बलवतस्तस्य पातयामास वक्षसि ।। १२
स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः । विशीर्यमाणः सहसा उल्काशतमिवाम्बरे ॥ १३
स तु तेन प्रहारेण विचचाल महाकपिः । परिघेण समाधृतो यथा भूमितलेऽचलः ।। १४
स तदाभिहतस्तेन हनुमान् प्लवगोत्तमः । मुष्टिं संवर्तयामास बलेनातिमहाबलः ॥ १५
तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान् । अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः || १६
ततः पुस्फोट चर्माम्य प्रसुस्राव च शोणितम् । मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता ॥ १७
स तु तेन प्रहारेण निकुम्भो विचचाल ह । स्वस्थश्चापि निजग्राह हनुमन्तं महाबलम् ।। १८
विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः । निकुम्भेनोद्यतं दृष्ट्वा हनुमन्तं महाबलम् ॥ १०.
स तदा ह्रियमाणोऽपि कुम्भकर्णात्मजेन ह । आजघानानिलसुतो वज्रकल्पेन मुष्टिना २०
आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत । हनुमानुन्ममाथाशु निकुम्भं मारुतात्मजः ।। २१
निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष ह । उत्पत्य चाम्य वेगेन पपातोरसि वीर्यवान् ॥ २२
परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम् । उत्पाटयामास शिरो भैरवं नदतो महत्॥ २३
अथ विनदति सादिते निकुम्भे पवनसुतेन रणे बभूव युद्धम् ।
दशरथसुतराक्षसेन्द्रसून्वोर्भृशतरमागतरोपयोः सुभीमम् ।।
व्यपेते तु जीवे निकुम्भस्य हृष्टा निनेदुः प्लवङ्गा दिशः सस्वनुश्च ।
चचालेव चोर्वी पफालेव च द्यौर्भयं राक्षसानां बलं चाविवेश ।। २५
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
युद्धकाण्डे निकुम्भवधो नाम सप्तसप्ततितमः सर्गः

अष्टसप्ततितमः सर्गः
मकराक्षाभिषेणनम्
निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् । रावणः परमामर्षीं प्रजज्वालानलो यथा ।।