पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्विशः सर्गः

कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान । भगवन् श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥८ तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुंगवः । अव्रवीच्छ्रयतां राम कस्यायं पूर्व आश्रमः ।। ९ कंदोर्पो मूर्तिमानासीत् काम इत्युच्यते बुधैः । तपस्यन्तमिह स्थाणुं नियमेन समाहितम ।। १० कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम । धर्षयामास दुर्मधा हुंकृतश्च महात्मना ।।११ अवदग्धस्य रौद्रेण चक्षुषा रघुनन्दन । व्यशीर्यन्त शरीसत् स्वात् सर्वगात्राणि दुर्मतः ॥ १२ तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना । अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण ह ॥ १३ अनङ्ग इति विग्न्यातस्तदा प्रभृति राघव । स चाङ्गाविषयः श्रीमान यत्राङ्ग स सुमोच ह ।।१४ तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा । शिष्या धर्मपरा नित्यं तेषां पापं न विद्यते ।। १५ इहाद्य रजनी राम क्सेम शुभदर्शने । पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम ॥ १६ अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम । स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ।।१७ इह वामः परो राम मुखं वत्स्यामहे निशाम । तेषां संवदतां तत्र तपोदीर्घण चक्षुषा ॥ १८ विज्ञाय परमप्रीता मुनयो हर्षमागमन् । अर्घ्यं पाद्यं तथातिथ्य निवेद्य कुशिकात्मजे ॥ १९ गमलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम । सत्कारं समनुप्राप्य कथाभिरनुरञ्जयन् ।।२० यथार्हमजपन मन्ध्यामृपयस्ते समाहिताः । तत्र वासिभिगनीता मुनिभिः सुव्रतैः सह ॥ २१ न्यवसन सुसुखं तत्र कामाश्रमपदे तदा । कथाभिरभिरामाभिरभिगमौ नृपात्मजौ ॥२२ रभयामाम धर्मात्मा कौशिको मुनिपुंगवः ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्त्रिकाया संहिताया बालकाण्डे कामाश्रमनिवासो नाम त्रयोविंशः सर्गः

चतुर्विंशः सर्गः ताटकावन प्रवेश ततः प्रभाते विमले कृताह्निकमरिंदमौ । विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ।।१ ते च सर्वे महात्मानो मुनयः संशितव्रताः । उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ २ आरोहतु भवान्नावं राजपुत्रपुरस्कृतः । अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः ।।३ विश्वामित्रस्तथेत्युक्त्वा तानृपीनभिपूज्य च । ततार सहितस्ताभ्यां सरितं सागरंगमाम् ॥४ ततः शुश्राव तं शब्दं तोयसंरम्भवर्धितम् । मध्यमागम्य तोयस्य सह रामः कनीयसा ।। ५ अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुंगवम । वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ॥६ राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम् । कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ।। ७