पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्विसप्ततितमः सर्गः

तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽमिदीप्तः ।
प्रगृह्य तस्यैव किरीटजुष्टं ततोऽतिकायस्य शिरो जहार ॥
११०
तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम । पपात सहसा भूमौ शृङ्ग हिमवतो यथा ॥ १११
तं तु भूमौ निपतितं दृष्ट्वा विक्षिप्तभूषणम् । बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ॥ ११२
ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः । विनेदुरुच्चैर्बहवः सहसा विस्वरैः म्वरैः ।। ११३
ततस्ते त्वरितं याता निरपेक्षा निशाचराः । पुरीमभिमुग्वा भीना द्रवन्तो नायके हते ॥११४
प्रहर्षयुक्ता बहवन्तु वानराः प्रबुद्धपद्मप्रतिमाननास्तदा ।
अपूजयलक्ष्मणमिष्टभागिनं हने रिपी भीमबले दुरामद ।।
अतिबलमतिकायमभ्रकल्पं युधि विनिपात्य स लक्षणः प्रहृष्टः ।
त्वरितमथ नदा स रामपावं कपिनिवहश्च सुपूजितो जगाम ।।

इत्याः श्रीमद्रामायणे वाल्मीकीये आदिकाथ्ये चतुर्विशतिमहनिकायां संहनायाम् युद्धकाण्ने अनिकायवधो नाम एकसप्ततितमः मर्ग: द्विसप्ततितमः सर्गः रावणमन्युशल्याविष्कारः

अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा । उद्वैगमगमद्राजा वचनं चेदमब्रवीत् ।। १
धूम्राक्षः परमामी धन्वी शस्त्रभृतां वरः । अकम्पनः प्रहम्तश्च कुम्भकर्णस्तथैव च ।।
एतं महाबला वीरा राक्षमा युद्धकाइक्षिणः । जेतारः परमैन्यानां परैर्नित्यापराजिताः ॥

निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा। राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः ।।
अन्ये च बहवः शूरा महात्मानो निपातिताः । प्रन्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ।।
यौ हि तो भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः। यन्न शक्यं मुरैः सवरसुरैर्वा महाबलैः ।।
मोक्तुं तद्वन्धनं घोरं यक्षगन्धर्वकिन्नरैः । तन्न जाने प्रभावैर्वा मायया मोहनेन वा ।।
शरबन्धाद्विमुक्तो तौ भ्रातरौ रामलक्ष्मणौ । ये योधा निर्गनाः शूरा राक्षसा मम शासनात् ।।८
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः । तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम् ।। ९
शासयेत् सबलं वीरं ससुग्रीव विभीषणम् । अहो नु बलवान् रामो महदस्त्रबलं च वै
यस्य विक्रममासाद्य राक्षसा निधनं गताः । तं मन्ये राघवं वीरं नारायणमनामयम् ॥ ११
तद्भयाद्धि पुरी लङ्का पिहितद्वारतोरणा । अप्रमत्तैश्च सर्वत्र गुप्तै रक्ष्या पुरी त्वियम् ।। १२