पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनसप्ततितमः सर्ग: ८०३

हयेन च हयं केचिन्निजघ्नुर्वानरा रणे। प्रहृष्टमनमः सर्वे प्रगृहीतमहाशिलाः ।।
हरयो राक्षसाञ्जघ्नुद्रुमैश्च बहुशाखिभिः । नयुद्धमभवद्धारं रक्षोवानग्संकुलम् ॥
क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशिनैः शरैः। राक्षसा वानरन्द्राणां चिच्छिदः पादपान्शिलाः ॥६५
विकीर्णैः पर्वताप्रैश्च द्रुमैश्छिन्नैश्च संयुगे। हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ।। ६६
ते वानरा गर्वितहष्टचेप्टाः संग्राममासाद्य भयं विमुच्य ।
युद्धं तु सर्वे सह राक्षमैम्नैर्नानायुधाश्चक्रुरदीनसत्त्वाः ॥
तम्मिन् प्रवृत्ते तुमुले विमर्दै प्रदृष्यमाणेषु वलीमुग्वेषु ।
निपात्यमानेषु च राक्षसेषु महर्पयो देवगणाश्च नेदुः ।।
ततो हयं मारुततुल्यवेगमारुह्य शक्ति निशितां प्रगृह्य ।
नरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश ।।
स वानरान् सप्तगतानि वीर. प्रासेन दीप्तेन विनिर्बिभेद ।
एकक्षणनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुंगवानाम् ।।
ददृशुश्च महात्मानं ध्यपृष्ठे प्रतिष्ठितम् । चरन्तं हरिसैन्येषु विद्याधरमहर्षयः ।।
७१
स तस्य ददृशे मार्गा मामशाणिनकर्दमः । पतितः पर्वताकारैनिगरभिसंवृतः ।।
यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः । तावदेतानतिक्रम्य निर्विभेद नरान्तकः ।।
चलन्तं प्रासमुद्यम्य संग्रामाग्रे नगन्तक.। ददाह हरिसैन्यानि वनानीव विभावसुः ।।
यावदुत्पाटयामामुक्षाशैलान् बनौकम, । तावन प्रासहनाः पेतुर्वज्रकृत्ता इवाचलाः ॥ ७५
दिक्ष सर्वासु बलवान् विच चार नगन्नकः । प्रमृद्गन् सर्वतो युद्धे प्रावृट्काले यथानिल: ७६
न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयान। उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान्
एकेनान्तककल्पेन प्रासेनादिन्यतेजमा । भिन्नानि रिसैलानि निपेतुर्धरणीतले ।।
वज्रनिष्पपसदृशं प्रासम्याभिनिपातनम् । नशंकुनिराः साईं ते विनेदुमहाम्वनम् ॥
पततां हरिवीराणां रूपाणि प्रचका गिरे। वज्रभिन्नाप्रकृटानां शैलानां पततामिव ।।
ये तु पूर्व महात्मानः कुम्भकर्णेन पातिताः । तं स्वस्था वानरश्रेष्ठाः मुग्रीवमुपतस्थिरे ॥ ८१
विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् । नगन्तकभयत्रस्तां विद्रयन्तीमितस्ततः ॥
विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् । गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ।।
अथोवाच महातेजाः सुग्रीवो वानराधिपः । कुमारमन्दं वीरं शक्रतल्यपराक्रमम् ॥