पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तषष्टितमः सर्गः ७९३

मन्ये न तावदात्मानं बुध्यते वानराधिपः । शैलपहाराभिहतः कुम्भकर्णेन संयुगे ।
अयं मुहूर्तात् सुग्रीवो लब्धसंज्ञो महाहवे । आत्मनो वानरणां च यत्पथ्यं तत्करिष्यति ।। ७९.
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः । अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः ।।
तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवम्य नः। मिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ।।
इत्येवं चिन्तयित्वा तु हनुमान् मारुतात्मजः । भूयः संस्तम्भयामास वानराणां महाचमूम् ॥
स कुम्भकर्णोऽथ विवेश लक्कां स्फुरन्तमादाय महाकपि तम् ।
विमानचर्यागृहगोपुरम्थैः पुष्याम्यवर्यैरवकीर्यमाणः ।।
लाजगन्धोदवर्षेस्तु सिच्यमाना शनैः शनैः । राजमार्गम्य शीनत्वात् संज्ञामाप महाबलः ।।८४
तन: स संज्ञामुपलभ्य कृच्छ्राहलीयसस्तम्य भुजान्तरस्थः ।
अवेक्षमाणः पुरराजमार्ग विचिन्तयामास मुहुर्महात्मा ।
एवं गृहीतेन कथं नाम शक्यं मया संप्रतिकतुमद्य ।
तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ॥
ततः कराग्रै सहसा समेत्य राजा हरीणाममरेन्द्रशत्रुम् ।
स्वरैश्च कर्णो दशनैश्च नामां ददंश पार्धषु च कुम्भकर्णम् ।।
म कुम्भकर्णो हुतकर्णनासो विदारितन विमर्दितश्च ।
रोषाभिभूतः क्षनजागानः सुग्रीवमाविध्य पिपेष भूभौ ॥
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः ।
जगाम वं वेगवदभ्युपत्य पुनश्च रामेण समाजगाम ।।
कर्णनासाविहीनम्तु कुम्भकर्णा महाबलः । ग्गज शोणित. सिक्तो गिरिः प्रस्रवणैरिव ॥ ९०
शोणिताज़े महाकायो राक्षसो भीमविक्रमः | युद्धायाभिमुखो भूयो मनश्चक्रे महाबलः ।। ९१
अमर्षाच्छोणितोद्गारी शुशुभं गवणानुजः । नीलाञ्जनचयमन्यः ससन्ध्य इव तोयद. ॥
गते तु तस्मिन् मुरराजशत्रुः क्रोधात प्रदुद्राव रणाय भूयः ।
अनायुधोऽम्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ।।
ततः स पुर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।
तेनैव रूपेण बभञ्ज रुष्टः प्रहारमुष्ट्या च पदेन सद्यः ।।
बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्तामिरिव प्रदीप्तः ।
बुभुक्षितः शोणितमांसगृघ्नुः प्रविश्य तद्वानरसैन्यमुग्रम् ।।