पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तषष्टितमः सर्गः ७९१

प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे । नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ।।
भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः । बभञ्ज वानरान मर्वान् संक्रुद्धो गक्षसोत्तमः ॥ ३७
मांसशोणितसंक्लेदा भूमिं कुर्वन् स राक्षसः । चचार हरिसन्येषु कालामिरिव मूर्छितः ॥ ३८
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः । शूलइस्तो बभौ संख्ये कुम्भकर्णो महाबलः ॥३९
यथा शुष्कान्यरण्यानि ग्रीष्मे दहति पावकः । तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ।।
ततस्ते वध्यमानास्तु हतयूथा विनायकाः । वानरा भयसंविमा विनेदुर्विम्वरं भृशम् ॥
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः । राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥
प्रभमान् वानरान् दृष्ट्वा वज्रहस्तमुतात्मजः । अभ्यधावत वेगेन कुम्भकर्ण महाहवे ॥
शैलशृङ्गं महद्गृह्य विनदंश्च मुहुर्मुहुः । त्रासयन् राक्षमान सर्वान् कुम्भकर्णपदानुगान् ।। ४४
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि । म तेनाभिहतोऽत्यर्थ गिरिशृङ्गेण मूर्धनि ।।
कुम्भकर्णः प्रजञ्चाल कोपेन महता तदा। सोऽभ्यधावत वेगेन वालिपुत्रममर्षणः ॥
कुम्भकर्णो महानादम्बासयन् मर्ववानगन् । शूलं ममर्ज वै रोषाढङ्गदे स महाबलः ॥
तमापतन्तं बुद्धवा तु युद्धमार्गविशारदः । लाघवान्मोचयामास बलवान् वानरर्षभः ॥
उत्पन्य चैनं सहसा तलेनोग्स्थताडयत् । म तेनाभिहतः कोपात् प्रमुमोहाचलोपमः ।।
म लब्धसंज्ञो बलवान् मुष्टिमावत्यै राक्षम. । अपहम्तेन चिक्षेप विसंजः स पपात ह ॥ ५०
तम्मिन प्लवगशाले बिसज्ञे पतिते भुवि । तच्छृलं. ममुपादाय सुग्रीवमभिदुद्रुवे ॥
तमापतन्तं संप्रेक्ष्य कुम्भकर्ण महाबलम् । उत्पपान नदा वीरः सुग्रीवो वानराधिपः ॥
पर्वताग्रं समुक्षिप्य ममाविध्य महाकपिः । अभिदुद्राव वेगेन कुम्भकर्ण महाबलम् ।। ५३
तमापतन्तं सप्रेक्ष्य कुम्भकर्ण प्लवङ्गमम् । तस्थौ विकृतसर्वाङ्गो बानरेन्द्रसमुन्मुखः ॥
कपिशोणितदिग्धाङ्गं भक्षयन्तं प्लवङ्गमान् । कुम्भकर्ण स्थितं दृष्ट्वा मुग्रीवो वाक्यमब्रवीत् ।।५५
पातिताश्च त्वया धीराः कृतं कर्म मुदुप्करम् । भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ।।
त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि । सहम्वैकनिपातं मे पर्वतस्यास्य राक्षस ॥
तद्वाक्य हरिराजस्य सत्त्वधैर्यसमन्वितम् । श्रुत्वा राक्षमशालः कुम्भकर्णोऽब्रवीद्वचः ॥
प्रजापतेस्तु पौत्रस्त्वं तथैवक्षरजःसुतः । श्रुतपौरुषसंपन्नः तम्माद्गर्जसि वानर ।।
स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच ।
तेनाजधानोरसि कुम्भकर्ण शैलेन वज्राशनिसंनिभेन ।
तच्छैलशृङ्गं सहसा विकीर्णं भुजान्तरे तस्य तदा विशाले ।
ततो विषेदुः सहसा प्लवङ्गा रक्षोगणाश्चापि मुदा विनेदुः ।।