पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७९० श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

शिरांसि नदतां जह्रुः सहसा भीमनिःस्वनाः । वानराश्च महात्मानः समुत्पाट्य महाद्रुमान् ।।
रथानश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् । हनूमाशैलशृङ्गाणि वृक्षांश्च विविधान् बहून् ।।
ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः । तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह ।। १६
बभञ्ज वृक्षवर्ष च कुम्भकर्णो महाबलः ।।
ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य ।
तस्थौ ततोऽस्यापततः पुरस्तान्महीधरानं हनुमान् प्रगृह्य ।।
१७
स कुम्भकर्ण कुपितो जघान वेगेन शैलोत्तमभीमकायम् ।
स चुक्षुमे तेन तदाभिभूतो मेदागात्रो रुधिरावसिक्तः ॥
१८
स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिनाग्रशृङ्गम् ।
बाहन्तरे मारुतिमाजघान गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या ।
स शूलनिर्भिन्नमहाभुजान्तर: प्रविह्वल: शोणितमुद्रमन् मुग्वात् ।
ननाद भीमं हनुमान महाहवे युगान्तमेघस्तनितम्वनोपमम् ॥ २०
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य ।
प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात ।। २१
नतम्तु नीलो बलवान् पर्यवस्थापयन् बलम् । प्रविचिक्षेप शैला कुम्भकर्णाय धीमते ॥ २२
तमापतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह । मुष्टिमहागभिहतं तच्छैलानं व्यशीर्यत ।। २३
सविम्फुलिङ्गं सज्वालं निफ्पात महीतले । कपभः शरभो नीलो गवाक्षो गन्धमादनः ॥ २४
पश्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् । शैलैवृक्षम्तलैः पादैर्मुष्टिभिश्च महाबलाः ।। २५
कुम्भकर्णं महाकायं मर्वतोऽभिप्रदुद्रुवुः । म्पर्गानिव प्रहारांम्तान् वेदयानो न विव्यथे ॥ २६
ऋषभं तु महावेगं बाहुभ्यां परिपम्बजे । कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः ।। २७
निपपातर्षभो भीमः प्रमुग्वाद्वान्तशोणितः । मुष्टिना शरभं हत्वा जानुना नीलमाहवे ॥ २८
आजघान गवाक्षं तु नलेनेन्द्ररिपुम्तदा । पादेनाभ्यहनत् क्रुद्धम्तरमा गन्धमादनम् ॥
दत्तप्रहारव्यथिना मुमुहुः शोणिनीक्षिताः। निपेतुम्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ॥ ३०
तेषु वानरमुख्येषु पतितेषु महात्ममु । वानराणां सहस्राणि कुम्भकर्ण प्रदुद्रुवुः ॥
तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः। समारुख समुत्पत्य ददंशुश्च महाबलाः ॥ ३२
तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा । कुम्भकर्ण महाकाय ते जप्नुः प्लवगर्षभाः ।।
स वानरसहस्रम्तैराचितः पर्वतोपमः । रराज राक्षमव्याघ्रो गिरिरात्मरुहैरिव ॥
बाहुभ्यां वानरान् सर्वान् प्रगृह्म सुमहाबलः । भक्षयामास संकुद्धो गरुडः पन्नगानिव ॥ ३५