पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तपष्टिनमः सर्गः ७८९

न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति । दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥२७
पलायनेन चोद्दिष्टाः' प्राणान् रक्षामहे वयम् । एकेन बहवो भमा यशो नाशं गमिष्यति ॥२८
एवं बुवाणं तं शूरमङ्गदं कनकाङ्गदम् । द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ।।
कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । न म्थानकाली गच्छामो दयितं जीवितं हि नः॥३०
एतावदुक्त्वा वचनं सर्वे ते भेजिर दिशः । भीमं भीमाक्षमायान्नं दृष्ट्वा वानरयूथपाः ।।
द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुग्वाः । सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ॥ ३२
प्रहर्षमुपनीताश्च वालिपुत्रेण धीमना। आज्ञाप्रतीक्षास्तम्थुश्च सर्वे वानग्यथपाः ।। ३३
ऋषभशरभमैन्दधृमनीलाः कुमुदमुपेणगवाक्षरम्भताराः ।
द्विविदपनसवायुपुत्रमुच्याम्त्वरिनतराभिमुग्वं रणं प्रयाताः ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकान्ये चतुर्विशतिसहस्त्रिकायां संहितायाम् युद्धकाण्डे वानरपर्यवस्थापनं नाम षट्षष्टितमः सर्गः सप्तषष्टितमः सर्गः

कुम्भकर्णवधः
ते निवृत्ता महाकायाः श्रुत्वाङ्गन्दवचम्नदा । नैष्ठिकी बुद्धिमामाद्य सर्वे संग्रामकाक्षिणः ॥ १
ममुदीरितवीर्याश्च समारोपितविक्रमाः। पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुग्वाः ।। २
प्रयानाश्च गता हष मणे कृतनिश्चयाः । चक्रुः मुतुमुल युद्धं वानगम्त्यक्तजीविताः ।।
अथ वृक्षान् महाकायाः मानूनि सुमहान्ति च । वानगम्तृर्णमुद्यम्य कुम्भकर्णमभिद्रुताः ॥
स कुम्भकर्णः सक्रुद्धो गदामुद्यम्य वीर्यवान् । अर्दयन् मुमहाकायः समन्ताद्व्याक्षिपद्रिपून् ॥ ५
शतानि सप्त चाष्टौ च महमाणि च वानगः । प्रकीर्णाः शरते भूमौ कुम्भकर्णेन पोथिताः ॥६
षोडशाष्टौ च दश न विंशन त्रिंशत्तथैव च । परिक्षिप्य च बाहुभ्यां ग्वादन् विपरिधावति ।।७
भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगानिव । कृच्छ्रेण च समाश्वम्ताः संगम्य च ततस्ततः ।।
वृक्षाद्रिहस्ता हरयस्तस्थुः संग्राममूर्धनि । ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः ।।
दुद्राव गिरिशृङ्गार्भ विलम्ब इव तोयदः । तं ममुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः ।। १०
तमप्राप्तो महाकायं तस्य सैन्येऽपतत्तदा । ममदश्विान् गजांथापि रथांश्चैव नगोत्तमः ।।
११
तानि चान्यानि रक्षांसि पुनश्चान्यदिरेः शिरः। तच्छैलशृङ्गाभिहतं हताश्वं हतसारथि ।। १२
रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् । रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः ॥ १३