पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिषष्टितमः सर्गः ७८१

सेतुना सुखमागम्य वानरैकार्णवं कृतम् । ये रक्षसां मुख्यतमा हताम्ते वानरैयुधि ।।
वानराणां क्षयं युद्धे न पश्यामि कदाचन । न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ १७
तदेतद्भयमुत्पन्नं त्रायस्वेह' महाबल । नाशय त्वमिमानद्य तदर्थ बोधितो भवान् ।।
सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम । त्रायम्वेमां पुरी लङ्का बालवृद्धावशेषिताम् ॥ १९
धातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् । मयैवं नोक्तपूर्वा हि कच्छिद्रातः परंतप ॥ २०
त्वय्यम्ति तु मम स्नेह: परा संभावना च मे । दैवासुरेषु युद्धषु बहुशा राक्षसर्पभ ।। २१
न्वया देवाः प्रतिगृह्य निर्जिताश्चासुरा युधि । तदेतत्सर्चमातिन वीर्य भीमपराक्रम ॥ २२
न हि ते सर्वभूतेषु दृश्यते सदृशो बली ।।
कुरुष्व मे प्रियहितमेतदुत्तमं यथापियं प्रियग्ण बान्धवप्रिय ।
म्वतेजसा विधम मपत्नवाहिनी शरद्धनं पक्न इवाद्यती महान् ।। २३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकागदे रावणाभ्यर्थना नाम द्विषन्तिमः गग. त्रिपष्टितमः मर्गः कुम्भकर्णानुशाक

तस्य राक्षसराजम्य निशम्य परिदेविनम् । कुम्भकर्णा बभाषऽथ वचनं प्रजहास च ॥ १
दृष्टो दोषो हि योऽस्माभि. पुग मन्त्रविनिर्णये। हितप्वनभिरक्तंन सोऽयमासादितम्त्वया ॥२
शीघ्रं ग्वल्य युपेतं त्वां फलं पापम्य कर्मण । निरयेष्वेव पननं यथा दुष्कृतकर्मणः ।। ३
प्रशमं वै महाराज कृत्यमेवढ चिन्तितम । केवलं वीर्यदर्पण नानुबन्धी विचारितः ॥
यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः । पूर्व चोनरकार्याणि न स वेद नयानयौ ।
देशकालविहीनानि कर्माणि विपरीनवर । क्रियमाणानि दुष्यन्ति हवीप्यप्रयतेष्विव ।। ६
'त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति । सचिवैः समयं कृत्वा म मभ्ये वर्तते पथि ॥ ७
यथागमं च यो राजा समय विचिकीर्षति । वुध्यने सचिवान् बुद्धया सुहृदश्चानुपश्यति ॥ ८
धर्ममर्थ च कामं च सर्वान् वा रक्षसां पते । भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ।।
त्रिपु चैनेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते। राजा वा राजमात्री वा व्यथं तस्य बहु श्रुतम् ।। १०
उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम् । योग च रक्षसां श्रेष्ठ तावुभौ च नयानयौ ॥११