पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७८० श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहर । तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥ ३६
राघवेण समादिष्टो नीलो हरिचमूपतिः। शशास वानरानीकं यथावत्कपिकुञ्जरः ।। ३७
ततो गवाक्षः शरभो हनुमानङ्गन्दस्तदा। शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ।। ३८
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः । पादपैरर्दयन् वीरा वानराः परवाहिनीम् ॥ ३९
ततो हरीणां तदनीकमुग्रं राज गैलोद्यतदीप्तहस्तम् ।
गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ।।

इत्यार्षे श्रीमद्रामायगे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे कुम्भकर्णवनकथनं नाम एकषष्टितमः सर्ग: द्विषष्टितमः सर्गः रावणाभ्यर्थना

स तु राक्षसशादलो निद्रामदममाकुलः । राजमार्ग श्रिया जुष्टं ययौ विपुलविक्रमः ॥
राक्षमानां महश्च वृतः पग्मदुर्नयः । गृहेभ्यः पुष्पवर्षेण कीर्यमाणम्नदा ययौ ॥
स हेमजालविततं भानुभास्वरदर्शनम् । ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ।।
स नत्तदा मूर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेनिवेशम् ।
ददर्श दृरेऽप्रजमासनम्थं स्वयंभुवं शक्र इवासनस्थम् ।।
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितम् । कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ।।
मोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च । ददर्शा द्विसमासीनं विमाने पुष्पके गुरुम् ।।
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम् । तृणमुत्थाय संहृष्टः संनिकर्षमुपानयन् ॥
अथासीनम्य पर्यो कुम्भकर्णो महाबलः । भातुर्ववन्दे चरणौ किं कृत्यमिनि चाब्रवीन ।
उत्पत्य चैनं मुदिनी गवणः परिपम्बजे । स भ्रात्रा संपरिप्यतो यथावच्चाभिनन्दितः ।।
कुम्भकर्णः शुभं दिव्यं प्रनिपद वरासनम् । स तदासनमाश्रित्य कुम्भकर्णो महाबलः ।। १०
संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत । किमर्थमहमादृत्य त्वया राजन् विबोधिनः ।।
शम कम्माद्भयं तेऽम्नि कोऽद्य प्रेतो भविष्यनि । प्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम् ।।
ईपत्तु परिवृत्ताभ्यां नत्राभ्यां वाक्यमब्रवीत् । अद्य ते सुमहान् कालः शयानस्य महाबल ॥१३
सुखितम्त्वं न जानीषे मम रामकृतं भयम् । एष दाशरथी रामः सुग्रीवमहितो बली ॥ १४
समुद्रं सबलम्तीर्चा मूलं नः परिकृन्तति । हन्त पश्यम्ब लगायां' वनान्युपवनानि च ।। १५