पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकषष्टितमः सर्गः ७७९

शूलपाणि विरूपाक्षं कुम्भकर्ण महाबलम् । हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहितः ॥
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः । अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ १२
एतेन जातमात्रेण क्षुधार्तेन महात्मना। भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ।।
तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः । यान्ति म्म शरणं शक्रं तमप्यर्थ न्यवेदयन् ॥ १४
स कुम्भकर्णे कुपितो महेन्द्रो जघान वन्त्रेण शितेन वजी।
स शक्रवजाभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ।। १५
तस्य नानद्यमानस्य कुम्भकर्णस्य धीमनः । श्रुन्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे ।। १६
तत्र कोपान्महेन्द्रस्य कुम्भकर्णी महाबलः । विकृप्यैगवताहन्तं जघानारसि वासवम् ।।
कुम्भकर्णप्रहारार्ता विजञ्चाल म वामवः । तनो विधेदुः सहसा देवब्रह्मर्षिदानवाः ।।
प्रजाभिः सह शक्रश्च ययौ म्यानं म्वयंभुवः | कुम्भकर्णम्य दौरास्यं शशंसुम्ने प्रजापतेः ॥ १९
प्रजानां भक्षणं चापि देवानां चापि धर्षणम् । आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥ २०
एवं प्रजा यदि त्वेष भक्षयिष्यनि नित्यशः । अचिरणेच कालेन शून्यो लोको भविष्यति ।।
वामवम्य वचः श्रुत्वा सर्वलोकपिनामहः । रक्षाम्यावाहयामास' कुम्भकर्ण ददर्श ह ॥ २२
कुम्भकर्ण समीक्ष्यैव वितत्रास प्रजापनिः । दृष्ट्वा विश्वाम्य चैवेद स्वयंभूरिदमब्रवीत् ॥ २३
ध्रुवं लोकविनाशाय पौलम्त्येनासि निर्मितः । तम्मात्त्वमद्यप्रभृनि मृतकल्पः शयिष्यसे ।। २४
ब्रह्मशापाभिभूतोऽथ निपातायत. प्रभाः । ननः परमसंभ्रान्तो रावणो वाक्यमब्रवीत् ॥ २५
विवृद्धः काञ्चनी वृक्षः फलकाले निकृत्यते । न नमार स्वकं न्याय्यं शप्तुमेव प्रजापते ॥ २६
न मिथ्यावचनश्च त्वं म्बम्यत्येप न संगमः । कालन्तु क्रियतानम्य शयने जागरे तथा ।। २७
रावणस्य वचः श्रुत्वा स्वयंभरिदमब्रवीत् । शयिता ह्येप षण्मामानेकाहं जागरिष्यति ॥ २८
एकनाहा त्वसौ बीरश्चग्न् भूमि बुभुक्षिनः । व्यात्ताम्यो भक्षयल्लोकान् संक्रुद्ध इव पावकः।।२९
सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् । त्वत्पराक्रमभीतश्च राजा संप्रति रावणः ।।
स एप निर्गतो वीरः शिविराद्धीमविक्रमः । वानरान् भृगसंक्रुद्धो भक्षयन् परिधावति ॥ ३१
कुम्भकर्ण समीक्ष्यैव हरयाऽद्य प्रविद्रुनाः । कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ।। ३२
उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रिनम् । इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः।। ३३
विभीषणवचः श्रुत्वा हेतुमत्सुमुरवरितम् । उवाच राघवो वाक्यं नीलं सेनापति तदा ।। ३४
गच्छ सैन्यानि सर्वाणि न्यूह्य तिष्ठस्व पावकं । द्वाराण्यादाय लकायाश्चर्याश्चाप्यथ संक्रमान् ॥