पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७७८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमियांशुभिः ।
जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयंभुवः ॥
तं राजमार्गस्थम मित्रघातिनं वनौकसस्ते सहसा बहिः स्थिताः ।
दृष्ट्वाप्रमेयं गिरिशृङ्गकल्पं वितत्रसुन्ते हरियूथपालाः ॥
केचिच्छरण्यं शरणं म रामं ब्रजन्ति केचियथिताः पतन्ति ।
केचिद्दिशः स्म व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म ।।
तमद्रिशृङ्गप्रतिमं किरीटिनं म्पृशन्तमादित्यमिवात्मतेजमा ।
वनौकमः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे कुम्भकर्णप्रबोधो नाम षष्टितमः सर्ग: एकषष्टितमः सर्गः कुम्भकर्णवृत्तकथनम्

ततो रामो महातेजा धनुरादाय वीर्यवान् । किरीटिनं महाकायं कुम्भकर्ण ददर्श है। १
तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् । क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ।।
सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् ! दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ।।
विद्रुतां वाहिनी दृष्ट्वा वर्धमानं च गक्षमम् । मविस्मयमिदं गमो विभीषणमुवाच ह ।।
कोऽमौ पर्वनसंकाशः किगटी हरिलोचनः । लक्कायां दृश्यने वीर मविद्युदिव तोयदः ॥
पृथिव्याः केतुभूनाऽमी महानेकोऽत्र दृश्यते । यं दृष्ट्वा वानगः सर्व विद्रवन्ति ततस्ततः ।। ६
आचक्ष्व मे महान को सी ग्क्षौ वा यदि वासुरः । न मयेवंविधं मृनं दृष्टपूर्व कदाचन ।। ७
स पृष्टी गजपुत्रण गमेणाक्लिष्टकर्मणा । विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ।।
येन वैवस्वती युद्ध वासवश्च पराजितः । सैष विश्रवमः पुत्रः कुम्भकर्णः प्रतापवान् ।।
अन्य प्रमाणात्महशो राक्षसोऽन्यो न विद्यते ॥
एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिनाशनाश्च ।
गन्धर्वविद्याधकिनगश्च सहस्रशो राघव संप्रभमाः ।।