पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७७६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

शापस्य वशमापनस्ततः क्रुद्धा निशाचराः । महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ।।
तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् । अन्ये भेरी: समाजघ्नुरन्ये चकुर्महास्वनम् ।। ५१
केशानन्ये प्रललपुः कर्णावन्ये दशन्ति च । उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः ॥ ५२
न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः। अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः ।। ५३
मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्रान् । रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः ।।
वध्यमानो महाकायो न प्राबुध्यत राक्षसः । वारणानां सहसं तु शरीरऽस्य प्रधावितम् ॥ ५५
कुम्भकर्णस्ततो बुद्धः स्पर्श परमबुध्यत ॥
स पात्यमानैगिरिशृङ्गवृक्षरचिन्तयंस्तान् विपुलान् प्रहारान् ।
निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ।।
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ ।
विवृत्य वक्त्रं बडबामुखाभं निशाचरोऽसौ विकृतं जजृम्भे ।।
तस्य जाजृम्भमाणम्य वक्त्रं पातालसंनिभम । ददृशे मेरुशृङ्गाने दिवाकर इवोदिनः ॥
स जृम्भमाणोऽतिवलः प्रतिबुद्धी निशाचरः । निःश्वामश्चास्य संजज्ञे पर्वनादिव मारुत. ॥ ५९.
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ । तपान्ते सबलाकस्य मेघम्येव विवर्षतः ॥ ६०
तस्य दीप्तामिसदृशे विद्युत्सदृशवर्चसी । ददृशाते महानेत्रे दीप्राविव महाग्रही ।।
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहुन् । वराहान महिषांश्चैव स बभक्ष महाबलः ॥६२
अदन् बुभुक्षितो मांसं शाणितं तृपिनः पिबन् । मेद कुम्भांश्च मद्यं च पपौ शक्ररिपुस्तदा।। ६३
तनम्तृप्त इति ज्ञात्वा समुन्पेनिशाचराः। शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥
निद्राविशदनेत्रन्तु कनुपीकृतलोचनः । चारयन सर्वतो दृष्टिं तान् ददर्श निशाचरान् ।। ६५
स सर्वान् मान्त्वयामास नैर्ऋतान्नऋतर्षभः । बोधनाद्विस्मिनश्चापि राक्षसानिदमब्रवीत् ॥ ६६
किमर्थमहमादृत्य भवद्भिः प्रतिबोधिनः । कश्चित् मुकुशलं राज्ञो भयं वा नेह किंचन ।। ६७
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम् । यदर्थमेवं त्वरिनैर्भवद्भिः प्रतियोधिनः ।।
अद्य राक्षमराजम्य भगमुत्पाटयाम्यहम् । पातयिष्ये महेन्द्रं वा भानयिष्ये' तथानलम् ।। ६०
न शल्पकारणे सुप्त बोधयिष्यति मां गुरुः । तदाख्यातार्थतत्त्वेन माबोधनकारणम् ॥
एवं ब्रुवाणं सेरव्यं कुम्भकर्ण महाबलम् । यूपाक्षः सचिवो राजः कृताञ्जलिरुवाच ह ।। ७१
न नो दैवकृतं किंचिद्भयमम्नि कदाचन । मानुपान्नो भयं राजंस्तुमुलं संप्रवाधते ।। ७२
न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम् । यादृशं मानुषं राजन् भयमस्मानुपस्थितम् ॥७३