पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टितमः सर्गः ७७५

ददृशुनैर्ऋतव्याघ्रं शयानं भीमदर्शनम् । ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम् ।।
कुम्भकर्ण महानिद्रं सहिताः प्रत्यबोधयन् । ऊर्ध्वरोमाञ्चिततर्नु श्वसन्तमिव पन्नगम् ।। २८
त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् । भीमनासापुटं तं तु पातालविपुलाननम् ॥ २९
शय्यायां न्यस्तसर्वाङ्ग मेदोरुधिरगन्धिनम् । काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिंदमम् ॥ ३०
ददृशुनैर्ऋतव्यानं कुम्भकर्ण महाबलम् । नतश्चक्रुर्महात्मानः कुम्भकर्णागतम्तदा ।।
मांसानां मेरुसंकाशं राशि परमनर्पणम् । मृगाणां महिषाणां च वराहाणां च संचयान् ॥ ३२
चकुनैर्ऋतशाईला राशिमन्नस्य चाद्भुनम् । ततः शोणितकुम्भांश्च मद्यानि विविधानि च ॥ ३३
पुरस्तात् कुम्भकर्णम्य चक्रुस्त्रिदशशत्रवः । लिलिपुश्च परायेन चन्दनेन परंतपम् ।।
दिव्यैराच्छादयामासुर्माल्यैर्गन्धः सुगन्धिमिः । धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परंतपम् ।।
जलदा इव चोन्नेदुर्यातुधानास्ततस्ततः । शङ्खानापूरयामामुः शशाङ्कसदृशप्रमान् ।।
तुमुलं युगपञ्चापि विनेदुश्चाप्यमर्षिताः । नेदुरास्फोटयामासुश्विक्षिपुस्ते निशाचराः ॥
कुम्भकर्णविबोधार्थ चक्रुस्ते विपुलं म्वनम् ॥
सशङ्ख भरीपणवप्रणादमास्फोटितवेलितसिंहनादम् ।
दिशो द्रवन्नस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ॥ ३८
यदा 'भृशं तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रमुमः ।
ततो भुसुण्टीमुमलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ॥
३९
तं शैलशृङ्गमुसलैंगदाभिर्वृक्षैम्तलै दरमुष्टिभिश्च ।
सुम्वप्रसुप्त भुवि कुम्भकर्ण रक्षांम्युदयाणि नदा निजध्नुः ।।
तस्य निःश्वासवातेन कुम्भकर्णम्य रक्षमः ! राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन् पुरः॥ ४१
ततः परिहिता गादं गक्षसा भीमविक्रमाः। मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तदा ॥ ४२
दशराक्षससाहला युगपत् पर्यवादयन् । नीलाञ्जनचयाकारास्ते तु तं प्रत्ययोधयन् ।।
अभिन्नन्तो नदन्तश्च नैव संविविदे तु सः । यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा ॥ ४४
ततो गुरुतरं यलं दारुणं समुपाक्रमन् । अश्वानुष्टान् खरान्नागाअनुदण्डकशाङ्कुशैः ।।
भेरीशङ्खमृदङ्गाश्च सर्वप्राणैरवादयन् । निजप्नुश्चास्य गात्राणि महाकाष्ठकटकरैः ।।
मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः । तेन शब्देन महता लक्का समभिपूरिता ॥
सपर्वतवना सर्या सोऽपि नैव प्रबुध्यते । ततः सहस्र मेरीणां युगपत् समहन्यत ।।
मुष्टकाञ्चनकोणानामसक्तानां समन्ततः । एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यते ॥