पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७७२ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः । शक्यं भुजाभ्यामुतुन संख्ये भरतानुजः ॥१११
शक्त्या ब्राह्म्यापि सौमित्रिस्ताडितस्तु स्तनान्तरे। विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरन् ।
ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः । तं पीडयित्वा बाहुभ्यामप्रभुलचनेऽभवत् ॥ ११३
अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् । आजधानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥ ११४
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः । जानुभ्यामपतमौ चचाल च पपात च ॥
आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु । विपूर्णमानो निश्चष्टो रथोपस्थ उपाविशत् ।।
विसंज्ञो मूर्छितश्चासीन च स्थानं समालमत् । विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ॥ ११७
ऋषयो वानराः सर्वे नेदुर्देवाः सवासवाः । हनुमानपि तेजम्बी लक्ष्मण रावणादितम् ॥११८
अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य नम् । वायुसूनोः सहत्त्वेन भक्त्या परमया च सः ॥११९
शत्रणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः । तं ममुन्मृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।।
रावणस्य रथे तस्मिन् स्थानं पुनरुपागता । आश्वन्तश्च विशल्यश्च लक्ष्मण; शत्रुसूदनः ॥ १२१
विष्णोर्भागममीमांम्यमात्मानं प्रत्यनुस्मरन् । रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे ॥१२२
आददे निशिनान् बणाञ्जग्राह च महद्धनुः । निपातिनमहावीरां द्रवन्ती वानरी चमूम् ॥१२३
राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् । अथैनमुपसंगम्य हनुमान् वाक्यमब्रवीत ॥
१२३
मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि । विष्णुर्यथा गरुमन्तं बलवन्तं समाहितः ।। १२५
तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रण भाषिणम् । आरुगह महाशूगे बलवन्तं महाकपिम् ॥१२६
रथस्थं रावणं संख्ये ददर्श मनुजाधिपः । तमालोक्य महातेजाः प्रदुद्राव स राघवः ॥ १२७
वैरोचनिमिव कुद्धी विष्णुरभ्युद्यनायुधः । ज्याशब्दमकरोत्तीवं वज्रनिप्पेषनिःस्वनम् ॥ १२८
गिरा गम्भीरया गमी गक्षसेन्द्रमुवाच ह । तिष्ठ तिष्ठ मम त्वं हि कन्या विप्रियमीदृशम् ॥१२९
क नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ।।
यदीन्द्रवैवस्वतभास्करान् वा स्वयंमुवैश्वानरशंकगन् वा ।
गमिष्यसि त्वं दश या दिशोऽथवा तथापि मे नाय गती विमोक्ष्यसे ।।१३०
यश्चैव शक्त्याभिहतम्त्वयाद्य इच्छन् विवादं सहसाभ्युपेनः ।
स एव रक्षोगणराज मृत्युः सपुत्रदारम्य नवाद्य युद्धे ।।
१३१
एतेन चाप्यद्भुनदर्शनानि शरैर्जनम्थानकृनालयानि ।
चतुर्दशान्यात्तबरायुधानि रक्षःसहस्राणि निषूदितानि ।।
१३२
राधवस्य वचः श्रुन्या राक्षसेन्द्रो महाकपिम् । वायुपुत्रं महावीर्यं वहन्तं राघवं रणे ।।