पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६६ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे एकोनषष्टितमः सर्गः राबणाभिषेणनम्

तस्मिन् हते राक्षससैन्यपाले प्लवङ्गमानामुषमेष युद्ध।
भीमायुधं सागरतुल्यवेगं विदुदुवे राक्षसराजसैन्यम् ।।
गत्वाथ रक्षोऽधिपतेः शशंसुः सेनापति पावकमूनुशस्तम् ।।
तथापि तेषां वचनं निशम्य रक्षोऽधिपः क्रोधवशं जगाम ॥
संख्ये प्रहस्तं निहतं निशम्य शोकादितः क्रोधपरीतचेताः ।
उवाच नानतयोधमुख्यानिन्द्रो यथा चामरयोधमुल्यान् ।।
नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः । सूदिनः सैन्यपालो मे सानुयात्रः सकुझरः ।।
सोऽहं रिपुविनाशाय विजयायाविचारयन् । स्वयमेव गमिष्यामि रणशीर्षं तदनम् ॥
अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् । निर्दहिप्यामि बाणोधैर्वनं दीप्तैरिवाग्निभिः ।।
अथ संतर्पयिष्यामि पृथिवीं कपिशोणितैः ।
स एवमुक्त्वा ज्वलनप्रकाशं रथं नुरङ्गोत्तमराजयुक्तम् ।
प्रकाशमानं वपुषा ज्वलन्तं समारोहामरराजशत्रुः ।।
स शङ्खमेरीपणवप्रणादैराम्फोटितक्ष्वेलितसिंहनादैः ।
पुण्यैः स्तवैश्चाप्यभिपूज्यमानम्नदा ययौ राक्षसराजमुग्न्यः ।।
स शैलजीमूतनिकाशरूपैमासादनैः पावकदीप्तनेत्रैः ।
बभौ वृतो राक्षसराजमुख्यो मनवृतो रुद्र इवामरशः ।।
ततो नगर्याः सहसा महौजसा निष्कम्य तद्वानरसैन्यमुग्रम् ।
महार्णवाश्रम्तनितं ददर्श समुद्यतं पादपशैलहम्नम् ।।
१०
तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः ।
विभीषणं शस्त्रमृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ॥
नानापनाकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम् ।
सैन्यं गजेन्द्रीयमनागजुष्टं कम्येदमक्षोभ्यमभीरुजुष्टम् ॥
१२
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः ।
शशंस रामन्य बलप्रवेकं महात्मनां राक्षसपुंगवानाम् ।।