पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टपञ्चाशः सर्गः ७६५

स तं परमदुर्धर्षमापतन्तं महाकपिः । प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ।। ३९.
स तेनाभिहतः क्रुद्धो नदन् राक्षसगुंगवः । ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ।।
तस्य बाणगणान् घोरान् राक्षसस्य महाबलः । अपारयन् वारयितुं प्रत्यगृहानिमीलितः ॥ ४१
यथैव गोवृषो वर्षं शारदं शीघ्रमागतम् । एवमेव प्रहस्तस्य शरवर्ष दुरासदम् ।। ४२
निमीलिताक्षः सहसा नील: सेहे सुदारुणम् । रोषितः शरवर्षेण सालेन महता महान् ॥ ४३
प्रजघान हयात्रीलः प्रहस्तस्य मनोजवान् । ततः स चापमुद्गृह्य प्रहम्नस्य महाबलः ॥
बमन तरसा नीलो ननाद च पुनः पुनः । विधनुम्नु कृतम्तेन प्रहम्नी वाहिनीपतिः ॥ ४५
प्रगृह्य मुसलं घोरं म्यन्दनादवपुप्लुवे । तावुभौ वाहिनीमुख्यौ जानवरौ तरस्विनौ ।।
स्थितौ क्षनजदिग्धाङ्गी प्रभिन्नाविव कुञ्जरौ । उल्लिम्वन्नौ सुतीक्षणाभिर्दाभिरितरेतरम् ॥ ४७
सिंहशार्दूलमदृशौ सिंहशार्दूलचेष्टिनौ। विक्रान्तविजयौ वीरौ समरेष्वनिवर्निनौ ।।
काक्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ । आजघान तदा नीलं ललाटे मुसलेन सः !!
प्रहम्तः परमायत्तस्तम्य सुनाव शाणितम् । नतः गोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ।।
प्रहम्नम्योरमि क्रुद्धो विममर्ज महाकपिः । तमचिन्त्याहारं स प्रगृह्य मुसलं महत् ।।
अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् । नमुग्रवेगं संग्न्धमापतन्तं महाकपिः ॥ ५२
ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् । तम्य युद्धाभिकामन्य मुधे मुसलयोधिनः ॥ ५३
प्रहम्नभ्य शिलां नीलो मूनि चूर्णमपातयत् । सा तेन कपिमुख्येन विमुक्ता महती शिला ॥५४
विभेद बहुधा घोग प्रहम्तम्य शिरस्तदा । म गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ।।
पपान सद्सा भूमौ छिन्नमूल इव द्रुमः । प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् ॥
शरीरादपि सुनाव गिरेः प्रस्रवणं यथा । हते प्रहस्ते नीलेन तदकम्प्यं महबलम् ।।
रक्षमामप्रहृष्टानां लक्षामभिजगाम है । न शेकुः समरे स्थातुं निहते वाहिनीपतौ ॥
सेतुबन्धं समासाद्य विकीर्ण सलिलं यथा । तस्मिश्चममुख्ये राक्षसास्ते निरुद्यमाः ।। ५९
रक्षःपतिगृहं गत्वा ध्यानमूकत्वमास्थिताः । प्राप्ताः शोकार्णवं तीनं निःसंज्ञा इव तेऽभवन् ॥ ६०
ततस्तु नीलो विजयी महाबल: प्रशस्यमानः स्वकृतेन कर्मणा
समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे प्रहस्तक्धो नाम अष्टपञ्चाशः सर्ग: