पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एकोनविंशः सर्गः

तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः । प्रत्युज्जगाम तं दृष्टो ब्रह्माणमिव वासवः ।।४२ तं दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम । प्रह्लष्टवदनो राजा ततोऽर्घ्यमुपहारयत ॥ ४३ स राज्ञः प्रतिगृह्याध्य शास्त्रदृष्टेन कर्मणा । कुशलं चाव्ययं चैव पर्यपृच्छन्नगधिपम ||४४ पुरे कोश जनपदे वान्धवेयु सुहृत्सु च । कुझालं कौशिको गमः पर्यपृच्छन मुधार्मिकः ।।४५ अपि ते संनताः सर्व सामन्ता रिपको जिताः । दैवं च मानुपं चापि कर्म ते साध्वनुष्टितम ॥ ४६ वसिष्ठं च समागम्य कुशलं मुनिपुंगवः । ऋषींश्चान्यान यथान्यायं महाभागानुवाच ह ।।४७ ने सर्वे हष्टमनसस्तम्य गझो निवेशनम । विविशुः पृजित्तास्तत्र निपेदुश्च यथार्हतः ।।४८ अथ ह्रष्टमना राजा विश्वामित्रं महामुनिम । उवाच परमोदारो हृष्टस्नमभिपूजयन ।।४९ यथामृतस्य संप्राप्तिर्यथा वर्षमनृदके । यथा सदृशदारेषु पुत्रजन्माप्रजस्य च ॥५० प्रनष्टस्य यथा लाभो यथा हो महोदये । तथैवागमनं मन्ये स्वागतं ते महामुने ।।५१ कं च नं परमं कामं करोमि किमु हर्षितः । पात्रभूतोऽसि मे ब्रह्मन दिष्ट्या प्रामोऽसि धार्मिक।।५२ अद्य मे मफलं जन्म जीवितं च सुजीवितम । पूर्व राजर्पिशब्देन नपमा द्योतितप्रभः ।। ५३ ब्रह्मर्पित्वमनुप्रामः पज्योऽमि बहुधा मया । तदद्भुतमिदं ब्रह्मन पवित्रं परमं मम ।।५४ शुभक्षेत्रगतश्राहं तव संदर्शनात प्रभो। ब्रूहि यन प्रार्थिंत तुभ्यं कार्यमागमनं प्रति ।। ५५ इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये । कार्यस्य न विमर्श च गन्तुमर्हसि कौशिक ।।५६ कर्ना चाहमशेषेण देवतं हि भवान् मग । मम चायमनुप्राप्तो महानभ्युदयो द्विज ॥५७ तवागमनजः कृत्स्नो धर्मश्चानुनमो मम ।। इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवना विनीतमुक्तम । प्रथितगुणयशा गुणैविशिष्टः परमऋषिः परमं जगाम हर्पम ।। इत्य्। श्रीमद्रामायण वाल्मीकीये आदिकाव्य चतुर्वितिसहस्त्रिकाया मम्हिताया बालकाण्डे श्रीरामाद्यवनारा नाम अष्टादशः सर्गः

एकोनविंशः सर्गः विश्वामित्रवाक्यम् तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम । हृष्टरोमा महानेजा विश्वामित्रोऽभ्यभापत ।।१ सदृशं राजशार्दूल तवैतद्भुवि नान्यथा । महावंशप्रसूतास्य वसिष्टव्यपदेशिनः ।।२ यतु मे ह्यद्गतं वाक्यं तस्य कार्यस्य निश्चयम । कुरुष्व राजशार्दूल् भव सत्यप्रतिश्रवाः ॥ ३