पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७६० श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे षट्रपञ्चाशः सर्गः अकम्पनधः

तान्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः । क्रोधमाहारयामास युधि तीव्रमकम्पनः ।। १
क्रोधमूर्छितरूपस्तु धून्वन् परमकार्मुकम् । दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ २
तत्रैव तावत्त्वरितं रथं प्रापय सारथे । यत्रैते बहवो धन्ति सुबहून् राक्षसान् रणे ।। ३
एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः । द्रुमशैलपहरणास्तिष्ठन्ति प्रमुखे मम ॥
एतानिहन्तुमिच्छामि समरश्लापिनो ह्यहम् । एतैः प्रमथित सर्च दृश्यते राक्षसं बलम् ॥
ततः प्रजवनाश्वेन रथेन रथिनां वरः । हरीनभ्यहनकोधाच्छरजालैरकम्पनः ।।
न स्थातुं वानराः शेकुः किं पुनर्योद्भुमाहवे । अकम्पनशर्भमाः सर्व एव विदुद्रुवुः ।।
तान् मृत्युवशमापन्नानकम्पनक्शं गतान् । समीक्ष्य हनुमाज्ञातीनुपतस्थे महाबलः ।।
तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः । समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ।
अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः । बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ॥ १०
अकम्पनस्तु शैलाभं हनुमन्तमवस्थितम् । महेन्द्र इव धाराभिः शरैरभिववर्ष ह ।।
अचिन्तयित्वा बाणौघाञ्शरीरे पनिनाशिनान् । अकम्पनवधार्थाय मनो दधे महाबलः ॥ १२
स प्रमह्य महातेजा हनुमान् मारुनान्मजः । अभिदुद्राव नद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३
तस्याभिनर्दमानम्य दीप्यमानम्य तेजमा । बभूव रूपं दुर्धर्ष दीप्तम्येव विभावसाः ।।
आत्मानमप्रहरणं ज्ञात्वा क्रोधममन्वितः । शैलमुत्पाटयामास वेगेन हरिपुंगवः ।।
तं गृहीत्वा महाशैलं पाणिनैकेन मारूतिः । स विनद्य महानादं भ्रामयामास वीर्यवान् ॥ १६
ततस्तमभिदुद्राव राक्षमेन्द्रमकम्पनम । पुरा हि नमुचि संग्व्ये वज्रणेव पुग्दरः ।।
अकम्पनस्तु तदृष्ट्वा गिरिशृङ्ग ममुद्यनम् । दुगदेव महाबाणैरर्धचन्दैळदारयत् ।।
तत्पर्वताप्रमाकाशं रक्षोबाणविदारितम् । विशीर्ण पतितं दृष्ट्वा हनुमान् क्रोधमूर्छिनः ।
सोऽश्वकर्ण समामाद्य रोपदन्वितो हरिः । तूर्णमुत्पाटयामास महागिरिमिवोछितम् ॥ २०
तं गृहीत्वा महास्कन्धं सोऽश्वकर्ण महाद्युतिः । प्रहस्य परया प्रीत्या प्रामयामास संयुगे ॥ २१
प्रधावन्नुरुवेगेन प्रभन्नस्तरसा द्रुमान् । हनुमान् परमक्रुद्धश्चरणैर्दाश्रयन् क्षितिम् ।। २२
गजांश्च सगजारोहान् सरथान् रथिनम्तथा । जघान हनुमान् धीमान् राक्षमांश्च पदातिगान् ।।
तमन्तकमिव क्रुद्धं समरे प्राणहारिणम् । हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ २४
तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् । ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥ २५
स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः । निर्विभेद हनूमन्तं महावीर्यमकम्पनः ॥ २६