पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७५२ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

सखे राघव धर्मज्ञ रिपूणामपि वत्सल । अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ॥ ५६
न च कौतूहलं कार्यं सखित्वं प्रति राघव । कृतकर्मा रणे वीरः सखित्वमनुवेत्स्यसि ॥
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः । रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ।। ५८
इत्येवमुक्ता वचनं सुपर्णः शीघ्रविक्रमः । रामं च विरुजं कृत्वा मध्ये तेषां बनौकसाम् ॥ ५९
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान् । जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥६०
विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः । सिंहनादास्तदा नेदुर्लाङ्गलान् दुधुवुस्तदा ॥
ततो मेरीः समाजघ्नु दङ्गाश्चाप्यनादयन् । दध्मुः शङ्कान् संप्रहृष्टाः श्वेलन्त्यपि यथापुरम् ॥
आस्फोट्यास्फोटय विक्रान्ता वानरा नगयोधिनः । द्रुमानुत्पाट्य विविधास्तस्थुः शतसहस्रशः।।
विमृजन्तो महानादांस्त्रासयन्तो निशाचरान् । लकाद्वाराण्युपाजग्मुर्यो कामाः प्लवङ्गमाः ।। ६४
ततस्तु भीमस्तुमुलो निनादो बभूव शाग्वामृगयूथपानाम् ।
क्षये निदाघम्य यथा धनानां नादः मुभीमा नदतां निशीथे ।।

इत्यार्षे श्रीमहामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे नागपाशविमोक्षणं नाम पनाश: सर्ग: एकपञ्चाशः मग धूम्राक्षाभिषेणनम्

तेषां सुतुमुलं शब्दं वानराणां तरम्बिनाम् । नर्दतां गक्षमैः सार्ध नदा शुश्राव रावणः ॥ १
स्निग्धगम्भीरनिर्घोपं श्रुन्दा स निनदं भृशम् । सचिवानां नतम्तयां मध्ये वचनमब्रवीत् ।। २
यथासौ संप्रहृष्टानां वानराणां समुत्थितः । बहूनां सुमहान्नादो मेघानामिव गर्जनाम् ॥
व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः । तथा हि विपुलैनादैश्चुक्षुभे वरुणालयः ।।
तौ तु बद्धो शरैम्तीक्ष्णीतरी गमलक्ष्मणौ । अयं च सुमहान्नादः शहां जनयनीव मे ।। ५
एतत्तु वचनं चोक्त्वा मन्त्रिणा राक्षसेश्वरः । उवाच नैऋतास्तत्र समीपपरिवर्तिनः ।। ६
ज्ञायतां तूर्णमेतेषां मर्वेषां वनचारिणाम् । शोककाले समुत्पन्ने हर्षकारणमुस्थितम् ।।
तथोक्ताम्तेन संभ्रान्ताः प्राकारमधिरुह्य ते । ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ ८
तौ च मुक्तौ सुधारण शरबन्धेन राघवी । समुत्थिती महावेगी विषेदुः प्रेक्ष्य राक्षसाः ॥ .
संत्रस्नहृदयाः सर्वे प्राकारादवरुह्य ते । विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ।। १०
नदप्रियं दीनमुखा रावणम्य निगाचराः । कृल्नं निवेदयामासुर्यथावद्वाक्यको विदाः ।।
यौ ताविन्द्रजिता युद्धं प्रातरौ रामलक्ष्मणौ । निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ १२
विमुक्तौ शरबन्धेन नौ दृश्येते रणाजिरे । पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ ॥ १३