पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२ श्रीमद्वाल्मीकिरामायणे बालकाण्डे

सार्पे जातौ च सौमित्री कुलीरेऽभ्युदिते रवौ । राज्ञः पुत्रा महात्मानश्चत्वारो जझिरे पृथक् ।। १५ गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्टपदोपमाः । जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः ॥ १६ देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खाच्च्युता । उत्सवश्च महानासीदयोध्यायां जनाकुलः ॥ १७ रथ्याश्च जनसंबाधा नटनर्तकसंकुलाः । गायनैश्च विराविण्यो वादनैश्च तथापरैः ॥ १८ विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः । प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् ॥१९ ब्राह्मणेभ्यो ददौ वित्तं गोधनानि सहस्रशः । अतीत्यैकादशाहं तु नामकर्म तथाकरोत ।।२० ज्येष्ठं रामं महात्मानं भरनं कैकयीसुतम् । सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा ॥२१ वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा । ब्राह्मणान भोजयामास पौरान जानपदानपि ॥ २२ अददाद्ब्राह्मणानां च रनौघममितं बहु । तेषां जन्मक्रियादीनि मर्वकर्माण्यकारयत् ।। २३ तेषां केतुरिव ज्येष्ठे रामो रतिकरः पितुः । बभूव भूयो भूतानां स्वयंभूरिव संमतः ।। २४ सर्वे वेदविदः शूराः सर्वे लोकहिते रताः । सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ।।२५ तेषामपि महातेजा रामः सत्यपराक्रमः । इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः ।।२६ गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु संमतः । धनुर्वेदे च निरतः पितृशुश्रूपणे रतः ।।२७ बाल्यात् प्रभृति सुलिग्धो लक्ष्मणो लक्ष्मिवर्धनः । रामस्य लोकरामस्य भ्रातुज्येष्ठस्य नित्यशः ।। २८ सवाप्रयकरतस्य रामस्यापि शरीरतः । लक्ष्मणो लक्ष्मिसंपन्नो बहिः प्राण इवापर:॥२९ न च तेन विना निद्रा लभते पुरुषोत्तमः । मृष्टमन्नमुपानीतमश्नाति न हि तं विना ।। ३० यदा हि हयमारूढो मृगयां याति राघवः । तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ।। ३१ भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः । प्राणैः प्रियतरो नित्य तस्य चासीत्तथा प्रियः ।। ३२ स चतुर्भिर्महाभागैः पुत्रर्दशरथः प्रियैः । बभूव परमप्रीतो देवैरिव पितामहः ।। ३३ ते यदा ज्ञानसंपन्नाः सर्व समुदिता गुणैः । ह्लीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ॥ ३४ तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम् । पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा ।।३५ ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः । पितृशुश्रृषणरता धनुर्वेदे च निष्ठिताः ।।३६ अथ राजा दशरथस्तेषां दारकियां प्रति । चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ॥ ३७ तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः । अभ्यागच्छन्महातेजा विश्वामित्रो महामुनिः ।। ३८ स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह । शीघ्रमाख्यात मां प्राप्नं कौशिकं गाधिनः सुतम् ।।३९ तच्छ्रुत्वा वचनं त्रासाद्राज्ञो वेश्म प्रदुद्रुवुः । संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥४० ते गत्वा राजभवन विश्वामित्रमृषि तदा । प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा ॥ ४१