पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चाशः सर्गः

सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे । परुषं विप्रियं वापि श्रावितं तु कदाचन ॥ १०.
विससर्जैकवेगेन पञ्च वाणशतानि यः । इष्वस्लेष्वधिकम्तस्मात्कार्तवीर्याच्च लक्ष्मणः ।। २०
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः । सोऽयमुव्या हतः शेते महार्हगयनोचितः।। २१
तच मिथ्याप्रलप्तं मां प्रवक्ष्यति न संशयः । यन्मया न कृतो राजा राक्षसानां विभीषणः ॥२२
अस्मिन् मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि। मत्वा हीनं मया राजन् रावणोऽभिद्रवेद्बली ॥२३
अगदं तु पुरस्कृत्य ससैन्यः समुहृज्जनः । सागरं तर सुग्रीव नीलेन च नलेन च ॥
२४
कृतं हनुमता कार्य यदन्यैर्दुष्करं रणे । ऋक्षराजेन तुष्यामि गोलाङ्गलाधिपेन च । २५
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च। युद्धं केसरिणा संख्ये धोरं संपातिना कृतम् ।। २६
गवयेन गवाक्षेण शरभण गजेन च। अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीविनैः ।। २७
न चानिक्रमिनुं शक्यं दैवं सुग्रीव मानुषैः । यत्तु शक्यं वयम्येन सुहृदा च परंतप । २८
कृतं मुग्रीव तत्सर्वं भवना धर्मभीरुणा। मित्रकार्य कृनमिदं भवद्भिनिरर्षभाः ॥
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ । शुश्रुघुम्नस्य ते सर्वे वानरा परिदेवनम् ।।
वर्तयांचणि नेत्रै कृष्णतरेक्षणाः । तनः सर्वाण्यनीकानि स्थापयित्वा विभीषण ॥ ३१
आजगाम गदापाणिस्त्वरितो यत्र राघवः । तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम् ।। ३२
वानरा दुद्रुवः सर्व मन्यमानान्तु रावणिम् । निश्चेष्टौ विगतज्ञानौ रणरेणुसमुक्षितौ ॥ ३३
शयानी शरतल्पम्थौ द्रष्टुमायाद्विभीषणः ।।
तं राक्षसेन्द्रात्मजशङ्कया ते निपातितौ राजसुतौ च दृष्ट्वा ।
विभीपणं विव्यथिरे च दृष्ट्वा मेघा यथा वायुहताः प्लवङ्गाः ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्यं चतुर्विंशतिसहस्रिकायां सहितायाम् युद्धकाण्डे रामनिवेदो नाम एकोनप नाशः सर्ग पञ्चाशः सर्गः नागपाशविमोक्षणम्

अथोवाच- महातेजा हरिराजो महाबलः । किमियं व्यथिता सेना मूढवातेव नौर्जले ।। १