पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४८ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा । अशोकवनिकामेव राक्षसीभिः प्रवेशिता ॥
प्रविश्य सीता बहुवृक्षपण्डां तां राक्षसेन्द्रस्य विहारभूमिम् ।
संप्रेक्ष्य संचिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥

इत्यार्षे श्रीमद्रामायणे वास्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे सीतावासनं नाम अष्टचत्वारिंशः सर्ग: एकोनपञ्चाशः सर्गः रामनिर्वेदः

घोरेण शरबन्धेन बद्धौ दशरथात्मजी। निःश्वमन्तौ यथा नागौ शयानी रुधिरोक्षितौ ।। १
सर्वे ते वानरश्रेष्ठाः समुग्रीवा महाबलाः । परिवार्य महात्मानौ नम्थुः शोकपरिप्लुताः ।। २
एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान् । स्थिरत्वात्सत्त्वयोगाच शरैः संदानितोऽपि सन ।। ३
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पिनम् । भ्रातरं दीनवदनं पर्यदेवयदातुरः ।।
किं नु मे सीनया कार्य कि कार्य जीवितेन वा । शयानं योऽद्य पश्यामि भान युधि निर्जितम् ।।
शक्या सीतासमा नारी मर्त्यलोके विचिन्वना । न लक्ष्मणसमो भ्राता सचिवः सांपरायिकः ।।
परित्यक्ष्याम्यहं प्राणान् वानराणां तु पश्यनाम् | यदि पश्चत्वमापन्नः सुमित्रानन्दवर्धनः ।।
किं नु वक्ष्यामि कोमल्या मातरं किं नु कैकयीम् । कथमम्बा मुमित्रां च पुत्रदर्शनलालमाम् ।।
विवत्मां वपमानां च क्रोशन्नी कुरीमिव । कथमाश्वासयिष्यामि यदि याम्यामि तं विना ॥
कथं वक्ष्यामि शत्रुघ्नं भरनं च यशम्बिनम् । मया सह वनं यानो विना तेन गतः पुनः ॥१०
उपालम्भं न भक्ष्यामि सोढुं बन सुमित्रया । इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्महे ।। ११
धिमां दुष्कृतकर्माणमनार्य यकृते समौ । लक्ष्मणः पनिनः गेते शरनल्प गतामुवत ॥ १२
त्वं नित्यं मुविषण्णं मामाश्वामयमि लक्ष्मण । गतामुर्नाद्य शक्नोपि मामानमभिभाषितुम् ।। १३
येनाद्य निहता युद्धे गक्षसा विनिपातिताः । नम्यामेव क्षितौ वीरः स शेते निहतः परैः ॥१४
शयानः शरतल्पेऽम्मिन् म्वशाणिनपरिप्लुतः । शरजालश्चितो भाति भास्करोऽस्तमिव व्रजन् ।
बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम् । रुजा चात्रुवतोऽप्यस्य दृष्टिरागेण सूच्यते ।। १६
यथैव मां वनं यान्तमनुयानो महाद्युतिः । अहमप्यनुयाम्यामि तथैवैनं यमक्षयम् ।।
इष्टबन्धुजनो निन्यं मां च नित्यमनुव्रतः । इमामय गतोऽवस्थां ममानार्यम्य दुर्नयैः ।। १८