पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४४ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

सादितौ मामकैर्वाणैर्भ्रातरौ रामलक्ष्मणौ । नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात् ।। १३
सर्वैरपि समागम्य सर्षिसङ्घः सुरासुरैः । यत्कृते चिन्तयानस्य शोकार्तम्य पितुर्मम ॥ १४
अस्पृष्टा शयनं गात्रैस्त्रियामा याति शर्वरी । कृल्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला ॥ १५
सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया । रामस्य लक्ष्मणम्यापि सर्वेषां च वनौकसाम् ॥ १६
विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः । एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वतः ।।
यूथपानपि तान् सर्वान्ताडयामास रावणिः । नीलं नवभिराहत्य मैन्दं च द्विविदं तथा ॥ १८
त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः । जाम्बवन्तं महेष्वासो विद्धा बाणेन वक्षसि ।। १९
हनूमतो वेगवतो विससर्ज शरान् दश । गवाक्षं शरमं चैत्र द्वावप्यमिततेजसौ ॥ २०
द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः । गोलाङ्गुलेश्वरं चैव वालिपुत्रमथाङ्गदम् ॥ २१
विव्याध बहुभिर्वाणैम्वरमाणोऽथ रावणिः । तान् वानरवरान् भित्त्या शरैरमिशिखोपमैः ॥ २२
ननाद बलवान्तत्र महामत्त्वः स रावणिः । तानर्दयित्वा बणौघैत्रासयित्वा च वानगन् ।। २३
प्रजहास महाबाहुर्वचनं चेदमब्रवीत । शरबन्धेन घोरण मया बद्धौ चमूमुग्वे ।।
सहितौ भ्रातरावेतौ निशामयन राक्षसाः । एवमुक्ताम्नु ते मर्व गक्षसाः कृटयाधिनः ।। २५
परं विम्मयमाजग्मुः कर्मणा लेन हर्पिताः । पिनदुश्च महानादान सर्वती जलदोपमाः ।। २६
हनो गम इति ज्ञान्वा गणिं समजयन् । निप्पन्दौ तु तदा दृष्टा नावुभी गमलक्ष्मणौ ।।२७
वसुधायां निरुच्छासौ हनावित्यन्वमन्यन । हर्पण तु ममाविष्ट इन्द्रजिन्ममिनिंजयः ॥
प्रविवेश पुरी लका हर्षयन् सर्वगक्षसान् । रामलक्ष्मणयोदृष्टा गरीर मायकैश्चिते ।।
सर्वाणि चाङ्गोपाङ्गानि मुग्रीवं भयमाविशत् । तमुवाच परित्रम्नं वानरेन्द्रं विभीपण: ॥
सबाष्पवदनं दीनं शोकव्याकुललीचनम् । अलं त्रामेन सुग्रीव बाप्पवेगी निगृह्यताम् ॥ ३१
एवंप्रामाणि युद्धानि विजयो नास्ति नैष्ठिक । सशेपभाग्यतास्माकं यदि वीर भविष्यति ॥ ३२
मोहमेतौ प्रहास्येते महात्मानौ महाबली । पर्यवस्थापयात्मानमनाथं मां च वानर ।। ३३
सत्यधर्माभिरक्तानां नाम्नि मृत्युकृतं भयम् । एवमुक्त्या ततस्तस्य जलक्लिन्नेन पाणिना ॥ ३४
सुग्रीवम्य शुभं नेत्र प्रममा विभीपणः । ननः सलिलमादाय विद्यया परिजध्य च ।।
मुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः । प्रमृज्य बदनं तस्य कपिराजम्य धीमतः ।।
अब्रवीत्कालसंप्राप्तभसंभ्रममिदं वचः । न काल: कपिगजेन्द्र वैलव्यमवलम्बितुम् ।।
अतिस्नहोऽप्यकालेऽम्मिन् मरणायोपकल्पते। तम्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम् ॥३८
हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् । अथवा रक्ष्यतां रामो यावत्संज्ञाविपर्ययः ।।