पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ष।ट्चत्वारिंशः सर्गः ७४३

न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम् । नानिभिन्नं न चास्तब्धमाकराग्रादजिह्मगैः॥ २०
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा । अमृक् सुनुक्तुम्तीनं जलं प्रस्रवणाविव ।। २१
पपात प्रथमं रामो बिद्धो मर्मसु मार्गणैः । क्रोधादिन्द्रजिता येन पुग शक्रो विनिर्जितः ।। २२
रुक्मपुत्रैः प्रसन्नारधोगतिभिराशुगैः । नाराचैरर्धनारामलेरनलिकैरपि ।।
२३
विव्याध वत्सदन्तैश्च सिंहदंष्ट्रः क्षुरैस्तथा । स वीरशयने शिश्ये विज्यमादाय कार्मुकम्॥ २४
भिन्नमुष्टिपरीणाहं त्रिनतं रनभूषितम् । बाणपातान्तरे रामं पतितं पुरुषर्षभम् ।। २५
स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् । रामं कमलपत्रार्थ शरबन्धपरिक्षतम् ।। २६
शुशोच आतरं दृष्ट्वा पनितं धरणीतले । हरयश्चापि तं दृष्ट्वा संतापं परमं गताः ।।
शोकार्ताश्चुकशु?रमश्रुपूरितलोचनाः ॥
बदौ तु वीगै पतितौ शयानौ तौ वानराः संपरिवार्य तस्थुः ।
समागना वायुसुनप्रमुख्या विषादमार्गः परमं च जग्मुः ।।
२८

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां युद्धकाण्डे नागपाशबन्धो नाम पन्छचत्वारिंशः सर्ग: फ्ट्चत्वारिंशः सर्गः सुग्रीवाद्यनुशोकः

तना द्यां पृथिवी चैव वीक्षमाणा वनीकमः । ददृशुः संनती बाणैतिरी रामलक्ष्मणौ ॥ १
वृष्टेवापरते देवे कृतकर्मणि राक्षमे । आजगामाथ नं देशं सम्मुग्रीवा विभीषणः ॥ २
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः । नृण हनुमना सार्धमन्वशीचन्त राघवौ ।।
अचेष्टौ मन्दनिःश्वासी शोणितीघपरिप्लुतो । शरजालाचिती म्तब्धौ गयानौ शरतल्पयोः ॥ ४
निःश्वसन्तौ यथा सौ निश्चेष्टौ मन्द्रविक्रमौ । रुधिररावदिग्धाङ्गौ तापनीयाविव ध्वजौ ।। ५
तौ वीरशयने वीरौ शयानौ मन्दलेष्टिनी। यथपैम्नैः परिकृनौ बाष्पव्याकुललोचनैः ।।

राघवौ पतितौ दृष्ट्वा शरजालममावृतौ । बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ।।
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः । न चैनं मायया छन्नं ददृशू रावणि रणे ।।
तं तु मायाप्रतिच्छन्नं माययैव विभीषणः । वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ।।
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे । ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ।।
१०
तेजसा यशसा चैव विक्रमेण च संयुतम् । इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च ॥
उवाच परमप्रीतो हर्षयन् सर्वनर्जतान् । दृषणस्य च हन्तारौ ग्वरस्य च महाबलौ ।। १२