पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७४२ श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे

अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः । स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः॥३७
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः । मायया संवृतस्तत्र मोहयन् राधवौ युधि । ३८
अदृश्यः सर्वभूतानां कूटयोधी निशाचरः । बबन्ध शरबन्धेन प्रातरौ रामलक्ष्मणौ ।।
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः । सहसा निहतौ वीरौ तदा प्रेक्षन्त बानराः ।। ४०
प्रकाशरूपस्तु यदा न शक्तम्तौ बाधितुं राक्षसराजपुत्रः ।
मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ दुरात्मा ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् युद्धकाण्डे निशायुद्धं नाम चतुश्चत्वारिंशः सर्गः पञ्चचत्वारिंशः सर्गः नागपाशबन्धः

स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान् । दिदेशातिबलो रामो दश वानरयूथपान् ॥ १
द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम् । अङ्गदं वालिपुत्रं च शरभं च तरम्विनम् ।।
विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम् । ऋपभं चर्षभस्कन्धमादिदेश परंतपः ।। ३
ते संप्रहृष्टा हग्यो भीमानुद्यम्य पादपान् । आकाशं विविशुः सर्वे मार्गमाणा दिशा दश ॥ ४
तेषां वेगवतां वेगमिपुर्भिागवत्तरैः । अस्त्रवित्यरमास्त्रैम्तु वारयामास रावणिः ।।
ते भीमवेगा हरयो नागचैः क्षतविग्रहाः । अन्धकार न ददृशुर्मेघः सूर्यमिवावृतम् ॥
रामलक्ष्मणयोरेव सर्वदेह भिदः शगन् । भृशमावेशयामास गवणिः ममिनिंजयः ।।
निरन्तरशरीगै ती आतगै गमलक्ष्मणौ । क्रुद्धनेन्द्रजिता वीरौ पन्नगैः भरतां गतः ॥
नयोः क्षतजमार्गेण सुनाव रुधिरं बहु । तावुभौ च प्रकाशेते पुष्पिनाविव किंशुकौ ॥
ततः पर्यन्नरक्ताक्षी भिन्नाअनचयोपमः। रावणिर्धातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥
युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः । द्रष्टुमासादितुं वापि न शक्तः किं पुनयुवाम् ॥ ११
प्रावृताविषुजालेन राघवी कापत्रिणा । एष गेपपरीनामा नयामि यममादनम् ॥ १२
एवमुक्त्वा तु धर्मज्ञौ मानरी गमलक्ष्मणौ। निर्विभेद शितैर्वाणैः प्रजहर्ष ननाद च ॥
१३
भिन्नाञ्जनचयश्यामो विम्फार्य विपुलं धनुः । भूयोभूयः शगन् घोरान् विममर्ज महामृधे ॥१४
ततो मर्मसु मर्मज्ञो मजयन्निशितालारान् । गमलक्ष्मणयो/गे ननाद च मुहुर्मुहुः ।।
बद्धौ तु गरवन्धेन नावुभी रणमूर्धनि । निमेषान्नग्मात्रेण न शेकतुरुदीक्षितुम् ।।
ततो विभिन्नसर्वाङ्गी शरमल्याचितावुभौ । ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥ १७
तौ संप्रचलितौ वीरौ मर्ममेदेन कर्शिती । निपेनतुर्महेष्वासो जगत्यां जगतीपती ।। १८
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ । शरवेष्टितसर्वाङ्गावातौं परमपीडितौ ॥