पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशः सर्गः

ते प्रधानेषु यूथेषु हरीगां हरीयूथपाः । बभूवुर्युथपश्रेष्ठा वीरांश्चाजनयन् हरीन् ।। ३१ अन्ये अक्षवतः प्रस्थानुपतस्थुः सहस्रशः । अन्ये नानाविधाब्शैलान भेजिरे काननानि च ॥ ३२ सूर्यपुत्रं च सुप्रीवं शक्रपुत्रं च बालिनम् । भ्रातरावुपतस्थुस्ते सर्वे च हरियूथपाः ।। ३३ नलं नीलं हनूमन्तमन्यांश्च हरियूथपान् । ने तायर्क्ष्यबलसं सर्वे युद्धविशारदाः ॥ विचरन्तोऽर्दयन दर्पात् सिंहव्याघ्रमहोरगान् तांश्च सर्वान् महाबाहुर्याली विपुलविक्रमः॥ ३५ जुगोप भुजवीर्येण ऋक्षगोपुच्छवानरान् । तैरियं पृथिवी शूरैः मपर्वतवनार्णवा ।।३६ कीर्णा विविधसंस्थानैर्नानाव्यानलक्षणैः ।। तैर्मेघवृन्दाचलकूटकल्पैर्महाक्लैर्वानरयूथपालैः । बभूव भूर्भीमशरीररूपैः समावृता रामसहायहेतोः ।।३७ इत्यार्षे भीमद्रामायण वाल्मीकीये आदिकाय चतुर्विंशतिसहस्रिकाया संहिताया बालकाण्डे ऋक्षवानरोत्पत्तिर्नाम सप्तदशः सर्गः अष्टादशः सर्गः

श्रीरामाचवतारः निवृत्ते तु क्रतौ तस्मिन हयमेघे महात्मनः । प्रतिगृह्य मुग भागान् प्रतिजग्मुर्यथागतम ।। १ समाप्तदीक्षानियमः पत्नीगणमन्वितः । प्रविवेश पुरीं गजा मभृत्यबलवाहनः ॥२ यथाहं पूजितास्तेन राज्ञा वै पृथिवीश्वराः । मुदिताः प्रययुर्देशान प्रणम्य मुनिपुंगवम ।।३ श्रीमतां गच्छतां तेषां स्वपुराणि पुरात्तनः । बलानि रानां शुभ्राणि प्रहृष्टानि चकाशिरे ।।४ गतेषु पृथिवीशेपु राजा दशरथस्तदा । प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमम् ॥५ शान्तया प्रययौ सार्धमृश्यशृङ्गः सुपूजितः । अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता ॥ ६ एवं विमृज्य तान् सर्वान् राजा संपूर्णमानसः । उवास सुखिन्तत्र पुत्रोत्पत्तिं विचिन्तयन ।। ७ ततो यज्ञे समाप्ते तु ऋतूनां पट् समत्ययुः । ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥ ८ नक्षत्रेऽदितिदैवत्ये स्वोकसंस्थेषु पञ्चसु । अहेपु कर्कटे लग्ने वाक्पताविन्दुना सह ।।९ प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् । कौसल्याजनयद्रमं सर्वलक्षणसंयुतम् ।।१० विष्णोरर्घ महाभागं पुत्रमैक्ष्वाकर्धनम । कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।। ११ यथा वरेण देवानामदितिर्व पाणिना । भरतो नाम कैकैय्यां जज्ञे सत्यपराक्रमः || १२ साक्षाद्विष्णोश्चतुभ गः सर्वेः समुदितो गुणैः । अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत सुतौ ॥ १३ सर्वास्त्रकुशलौ वीरौ विष्णोरर्धप्तमन्वितौ । पुष्ये जातस्तु भरतो मीनलमे प्रसन्नधीः ।।१४