पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३५
एकचत्वारिंशः सर्गः

यद्वा विशसि लोकांस्त्रीन् पक्षी भूत्वा मनोजवः । मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि ।।
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेहिकम् । सुदृष्टा क्रियता लङ्का जीवितं ते मयि स्थितम् ।।
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा । जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥७४
सोऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम् । ददर्शासीनमव्ययं रावणं सचिवैः सह ।।
ततस्तस्या विदूरे स निपत्य हरिपुंगवः । दीप्तामिसदृशस्तस्थावङ्गदः कनकाङ्गदः ॥ ७६
तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम् । सामात्यं श्रावयामास निवेद्यात्मानमात्मना ।
दूतोऽहं कोसलेन्द्रम्य रामस्याक्लिष्टकर्मणः । वालिपुत्रोऽङ्गदो नाम यदि ते श्रीत्रमागतः ।। ७८
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः । निष्पत्य प्रतियुध्यम्ब नृशंस पुरुषो भव ॥ ७२,
हन्नास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम् । निरुद्विमास्त्रयो लोका भविष्यन्ति हते त्वयि ।।
देवदानवयक्षणां गन्धर्वारगरक्षसाम् । शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ।।
विभीषणमस्य चैश्वर्यं भविष्यति हते त्वयि । न चेन्सत्कृत्य वैदेही प्रणिपत्य प्रदाम्यसि ।।८२
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुंगवे । अमर्षवशमापनो निगाचगणेश्वरः ।।
तनः स रोपनाम्राक्षः शशास सचिवांस्तदा । गृह्यतामेष दुर्भधा वध्यतामिति चासकृत् ।। ८४
गवणम्य वचः श्रुत्वा दीप्तामिसमतेजसः । जगृहुम्तं ततो घोराश्चत्वारी रजनीचराः ।।
ग्राहयामाम तारयः स्वयमात्मानमात्मवान् । बलं दर्शयितुं वीरो यातुधानगणे तदा ।।
स तान् बाहुद्वये मक्तानादाय पनगानिब । प्रासादं शैलसंकाशमुत्पपानाङ्गदस्तदा ।।
तेऽन्नरिक्षाद्विनिर्धूतास्तम्य वेगेन राक्षसाः । भूमौ निपतिताः सर्वे राक्षसेन्द्रम्य पश्यनः ।। ८८
ननः प्रामादशिग्वरं शैलशृङ्गमिवोन्नतम् । ददर्श राक्षनेन्द्रम्य वालिपुत्र. प्रतापवान् ।।
तन्पफाल पदाक्रान्नं दशग्रीवम्य पश्यतः । पुरा हिमवतः शृङ्गं वज्रिणेव विदारितम् ।।
भक्त्वा प्रासादशिग्वरं नाम विश्राव्य चात्मन. । विनद्य सुमहानादमुत्पपात विहायसम् ॥१.१
व्यथयन् गक्षसान् सर्वान् हर्पयंश्चापि वानरान् । स वानराणां मध्ये तु रामपार्श्वमुपागतः।
रावणम्तु परं चक्रे क्रोधं प्रामादधर्षणात् । विनाशं चात्मनः पश्यन्निधासपरमोऽभवत् ॥ २३
रामस्तु बहुभिहृष्टैनिनदद्भि. प्लवङ्गमैः । वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ।।
सुपेणम्तु महावीर्यो गिरिकूटोपमो हरिः । बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ।।
चतुर्दाराणि सर्वाणि सुग्रीववचनात्कपिः । पर्यक्रामत दुर्धर्षा नक्षत्राणीव चन्द्रमाः ॥
तेषामक्षौहि णिशतं समवेक्ष्य बनौकमाम् । लङ्कामुपनिविष्टानां सागरं चाभिवर्तनाम् ॥
राक्षसा विस्मयं जम्मुस्वासं जम्भुम्तथापरे । अपरे समरोद्धर्षाद्धर्षमेव प्रपेदिरे ।।
कृत्नं हि कपिमिाप्तं प्राकारपरिखान्तरम् । ददृशू राक्षसा दीना- प्राकारं वानरीकृतम् ।।
हाहाकारं प्रकुर्वन्ति राक्षमा भयमोहिताः ॥