पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः । ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः ॥ ४५
गृहीत्वा द्रुमशैलागान् हृष्टा युद्धाय तस्थिरे । सर्वे विकृतलाशूलाः सर्वे दंष्ट्रानखायुधाः ॥ ४६
सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः । दशनागबलाः केचित्केचिद्दशगुणोत्तराः ।।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः । सन्ति चौधबलाः केचित्केचिच्छतगुणोत्तराः ॥ ४८
अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः । अद्भुतश्च विचित्रश्च तेषामासीत्समागमः ॥
तत्र वानरसैन्यानां शलभानामिवोद्यमः'। परिपूर्णमिवाकाशं संछन्नेव च मेदिनी ॥
लक्षामुपनिविष्टैश्च संपतद्भिश्च वानरैः । शतं शतसहस्राणां पृथगृक्षवनौकसाम् ।। ५१
लङ्काद्वाराण्युपाजग्मुरन्ये योद्ध समन्ततः । आवृतः स गिरिः सर्वैम्तैः समन्ताल्लवङ्गमैः ॥ ५२
अयुनानां सहस्रं च पुरी तामभ्यवर्तन । वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः ।। ५३
संवृता सर्वतो लक्का दुष्प्रवेगापि वायुना। राक्षमा विम्मयं जग्मुः सहसाभिनिपीडिताः ।। ५४
वानरैमेघसंकाशैः शक्रतुल्यपराक्रमैः । महाशब्दोऽभवत्तत्र बलौघम्याभिवर्तनः ।।
सागरम्येव भिन्नस्य यथा म्यान्सलिलम्वनः । तेन शब्देन महता मप्राकारा सतोरणा ॥ ५६
लका प्रचलिता मर्वा सशैलवनकानना । रामलक्ष्मणगुप्ता मा मुग्रीवेण च वाहिनी ।।
बभूव दुर्धर्षनग सर्वैरपि मुरासुरैः। राघवः संनिवेश्यैव सैन्यं म्ब रक्षमा वधे ।।
संमन्व्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः । आनन्नयमभिप्रेप्सुः क्रमयोगार्थतत्त्वक्ति ।।
विभीषणम्यानुमते राजधर्ममनुम्मन्न् । अङ्गदं बालितनयं समाहूयेदमब्रवीत् ।। ६०
गत्या सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे। लङ्घयित्वा पुरी लङ्कां भयं त्यक्त्वा गतव्यथः ।।६१
भ्रष्टश्रीक गतैश्चर्य मुमूर्षो नष्टचेतन । ऋषीणां देवतानां च गन्धर्वाप्सरसां नथा ।
नागानामथ यक्षाणां राज्ञां च रजनीचर । यच्च पापं कृतं मोहादवलिप्तेन राक्षम ||
तस्य पापस्य संप्राप्ता ब्युष्टिरद्य दुरासदा। नूनमद्य गती दर्पः स्वयंभूवरदानजः ।। ६४
यम्य दण्डधरम्तेऽहं दाराहरणकर्शितः । दण्डं धारयमाणम्नु लकाद्वारे व्यवस्थितः ।।
पदवीं देवनानां च महर्षीणां च राक्षस । राजर्षीणां च सर्वेषां गमिष्यसि मया हनः ।। ६६
बलेन येन वै सीतां मायया राक्षसाधम । मामतिक्रामयित्वा त्वं हृनवाम्नद्विदर्शय ॥
अराक्षसमिमं लोकं कर्गम्मि निशितैः शरैः। न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ।। ६८
धर्मात्मा रक्षमा श्रेष्ठः संप्राप्तोऽयं विभीषणः । लकैश्वर्य ध्रुवं श्रीमानयं प्रामोत्यकण्टकम् ॥ ६९
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया । शक्यं मूर्वसहायेन पापेनाविदितात्मना ।
युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस । मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ||