पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७३०
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः। तेन शब्देन वित्रस्ता जम्मुभीता दिशो दश ।।
शिखरं तत्त्रिकृटस्य प्रांशु चैकं दिविस्पृशम् । समन्तात्पुष्पसंछन्नं महारजतसंनिभम् ।।
शतयोजनविस्तीर्ण विमलं चारुदर्शनम् । श्लक्ष्णं श्रीमन्महश्चैव दुष्पापं शकुनैरपि ॥ १९
मनसापि दुरारोहं किं पुनः कर्मणा जनैः । निविष्टा तत्र शिखरे लका रावणपालिता । २०
शतयोजनविस्तीर्णा त्रिंशद्योजनमायता । सा पुरी गोपुरैरुच्चैः पाण्डराम्बुदसंनिभैः ॥ २१
काश्चनेन च सालेन राजतेन च शोभिता । प्रासादैश्च विमानश्च लका परमभूपिता ।। २२
घनैरिवातपापाये मध्यमं वैष्णवं पदम् । यम्यां स्तम्भसहस्रण प्रासादः समलंकृतः ।। २३
कैलासशिखराकारो दृश्यते खमियो लिम्वन् । चैत्यः स राक्षसेन्द्रम्य बभूव पुरभूषणम् ॥ २४
शतेन रक्षसां निन्यं यः समप्रेण रक्ष्यते । मनोज्ञां काननवती पर्वतैरुपशोभिताम् ॥ २५
नानाधातुविचित्रैश्च उद्यानरुपशोभिताम् । नानाविहगसंधुष्टां नानामृगनिषेविताम् ।। २६
नानाकुसुमसंछन्नां नानाराक्षससेविताम् । तां समृद्धां समृद्धार्थी लक्ष्मीवॉलक्ष्मणाग्रजः ॥ २७
रावणस्य पुरी रामो ददर्श सह वानरैः । नां महागृहसंबाधां दृष्ट्वा लक्ष्मणपूर्वजः ।। २८
नगरीममरप्रख्या विस्मयं प्राप वीर्यवान् ।।

तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिग्लंकृतां च ।

पुरी महायन्त्रकबाटमुरख्यां ददर्श रामो महता बलेन ।।

इत्यार्षे श्रीमद्रामायणे पाल्मीकीय आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे लङ्कादर्शनं नाम एकोनचत्वारिंशः सर्ग:


चत्वारिंशः सर्गः

रावणमुग्रीवनियुद्धम्


ततो रामः सुवेलाग्रं योजनद्वयमण्डलम । आरुरोह समुग्रीवो हरियूथपसंवृतः ।। १
स्थित्वा मुहूर्तं तत्रैव दिशो दा विलोकयन् । त्रिकूटशिम्बरे रम्ये निर्मितां विश्वकर्मणा ॥ २
ददर्श लकां मुन्यम्नां रम्यकाननशोभिताम । तम्यां गोपुरशृङ्गम्थं गक्षमेन्द्रं दुरासदम् ॥
श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम् । रक्तचन्दनसंलिप्तं रलाभरणभूषितम् ।।
नीलजीमूतसंकाशं हेममंछादिताम्बरम् ! ऐगवतविषाणायेरुत्कृष्टकिणवक्षसम् ।।५
अशलो हिनरागेण संवीतं रक्तवाससा । सन्ध्यातपेन संवीतं मेघराशिमिवाम्बरे ॥
पश्यतां वानरेन्द्राणां राaघवम्यापि पश्यतः । दर्शनाद्राक्षसेन्द्रम्य सुग्रीवः सहसोस्थितः ।।