पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२१
त्रयस्त्रिंशः सर्गः

अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना । इयं प्रयुक्ता रौद्रेण माया मायाक्दिा त्वयि ॥ १४
शोकस्ते विगतः सर्वः कल्याणं त्यामुपस्थितम् । ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु॥१५
उत्तीर्य सागरं रामः सह वानरसेनया । संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः । स हि तैः सागरान्तःथैलस्तिष्ठति रक्षितः १७
अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः। राघवम्तीर्ण इत्येव प्रवृत्तिम्तैरिहाहृता ।।
स तां श्रुत्वा विशलाक्षि प्रवृत्ति राक्षसाधिपः । एष मन्त्रयते सर्वः सचिवैः सह रावणः ॥१९
इति ब्रुवाणा सरमा राक्षसी सीतया सह । सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥ २०
दण्डनिर्धातवादिन्याः श्रुत्वा भेर्या महाखनम् । उवाच सरमा सीतामिदं मधुरभाषिणी ॥ २१
संनाहजननी ह्येषा भैग्वा भीरु भेरिका । भैरीनादं च गम्भीरं शृणु तोयदनिःस्वनम् ॥ २२
कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः । हृप्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः ॥ २३
तत्र नत्र च संनद्धाः संपतन्ति पदातयः । आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः ।।
वेगवद्भिर्नदद्भिश्च तोयौधैरिव सागरः । शस्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा ॥ २५
स्थवाजिगजानां च भूषितानां च रक्षसाम । संभ्रमो रक्षसामेष हृषितानां तरस्विनाम् ॥ २६
प्रभा विसृजतां पश्य नानावां समुत्थिताम् । वनं निर्दहता धर्मे यथा रूपं विभावसोः ।। २७
घण्टानां शृणु निर्षि स्थानां शृणु निःस्वनम्। हयानां हेषमाणानां शृणु तूर्यध्वनि यथा ॥२८
उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम् । संभ्रमो रक्षसामेष तुमुलो रोमर्षणः ।।
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् । रामः कमलपत्राक्षो दैत्यानामिव वासवः ॥३०
विनिर्जित्य जितक्रोधस्त्वामचिन्त्यपराक्रमः । रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति ॥ ३१
विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः । यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ।। ३२
आगतम्य हि रामस्य क्षिप्रमक्कगतां सतीम् । अहं द्रक्ष्यामि सिद्धार्थी त्वां शत्रौ विनिपातिते।
अश्रण्यानन्दजानि त्वं वर्तयिष्यसि शोभने। समागम्य परिष्वज्य तस्योरसि महोरसः ।। ३४
अचिगन्मोक्ष्यते सीते देवि ते जघनं गताम् । धृतामेतां बहून् मासान् वेणी रामो महाबलः।
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवो दिनम् । मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ॥ ३६
रावणं समरे हत्वा नचिरादेव मैथिलि। त्वया समग्रः प्रियया सुखा) लप्स्यते सुखम् ॥ ३७
समागता व वीर्येण मोदिष्यसि महात्मना । सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥ ३८