पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तदशः सर्गः

अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् । राजन्नर्चयता देवानथ प्राममिद त्वया । १८ इयं तु नृपशार्दूल पायसं देवनिर्मितम् । प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ।। १९ भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै। तासु त्वं प्राप्स्यसे पुत्रान यदर्थ यजसे नृप ॥२० तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम । पात्री देवान्नसंपूर्णा देवदत्तां हिरण्मयीम ।। २१ अमिषाच च तद्भूतमद्भुतं प्रियदर्शनम् । मुदा परमया युक्तश्चकारामिप्रदक्षिणम ।।२२ ततो दशरथः प्राप्य पायसं देवनिर्मितम । बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ।। २३ ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् । संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत ॥२४ हर्षरश्मिभिरुयोतं तस्यान्तःपुरमाबभौ । सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ॥२५ पायसं प्रतिगृह्णीष्व पुत्रीमिदमात्मनः । कौसल्यायै नरपतिः पायसाधं ददौ तदा ।।२६ अर्धाद ददौ चापि मुमित्रायै नराधिपः । कैकेय्यै चावशिष्टाधं ददौ पुत्रार्थकारणात् ।।२७ प्रददौ चावशिष्टा पायमस्यामृतोपमम । अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः ॥२८ एवं तासां ददौ राजा भार्याणां पायस पृथक् । तास्त्वेतत पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः ॥ २९ संमान मेनिरे सर्वाः प्रहर्षोदितचेतसः ।। ततस्तु ताः प्राश्य तदुत्तमस्त्रियो महीपतेरुत्तमपायस पृथक । हुताशनादित्यममानतेजसोऽचिरेण गर्भान प्रतिपेदिरे तदा ।।३० तनस्तु राजा प्रसमीक्ष्य ताः स्त्रियः प्ररूढगर्भाः प्रतिलब्धमानर्सः । बभूव हृष्टस्त्रिदिवे ग्रथा हरिः मुरेन्द्रसिद्धर्षिगणाभिपूजितः ।।३१ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिमहासकायां संहितायां बालकाण्डे पायसोत्पत्ति म षोडशः सर्गः

सप्तदशः सर्गः ऋक्षवानरोत्पत्तिः

पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः । उवाच देवताः सर्वाः स्वयंभूर्भगवनिदम् ।।१ सत्यसंघस्य वीरस्य सर्वेषां नो हितैषिणः । विष्णोः सहायान् बलिनः सूजध्वं कामरूपिणः ॥२ मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे । नयज्ञान बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान् ।।३ असंहार्यानुपायज्ञान सिंहसंहननान्वितान् । सर्वास्रगुणसंपन्नानमृतप्राशनानिव ।।४ अप्सरःसु च मुख्यासु गन्धर्मणां तनू षु च । किंनरीणां च गात्रेषु वानरीणां तनू षु च ॥५