पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टाविंशः सर्गः ७११

यं सूर्यस्तुल्यवर्णाममनु पर्येति पर्वतम् । यस्य भामा सदा भान्ति तद्वर्णा मृगपक्षिणः ॥३६
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः । सर्वकामफला वृक्षाः सदा फलसमन्विताः ।। ३७
मनि च महार्हाणि यस्मिन् पर्वनसत्तमे । तत्रैष रमते राजन् रम्ये काञ्चनपर्वते ।।३७
मुख्यो वानरमुग्न्यानां केसरी नाम पृथपः । षष्टिगिरिसहस्राणां रम्याः काञ्चनपर्वताः ॥ ३०
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षमाम् । तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ॥ ४०
निवमन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रा नग्वायुधाः । सिंहा इव चतुर्दष्ट्रा व्याघ्रा इव दुरासदाः ॥ ४१
सर्वे वैश्वानरसमा ज्वलिताशीवीपोपमाः । सुदीर्घाश्चिनलाङ्गला मत्तमातङ्गसन्निभाः ।। ४२
महापर्वतसंकाशा महाजीमूतनिःम्बनाः । वृत्तपिङ्गलरक्ताक्षा भीमभीमगतिस्वराः ॥ ४३
मर्दयन्तीव ते सर्वे नम्थुलको समीक्ष्य ते । एष चैषामधिपनिर्मध्ये तिष्ठति वीर्यवान् ॥४४
जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् । नाना पृथिव्यां विरव्यातो राजशतबलीति यः ।।४५
एषैवाशंसते लका म्वेनानीकेन मर्दितुम् । विक्रान्तो बलवाझूरः पौरुषे स्वे व्यवस्थितः ॥ ४६
रामप्रियार्थ प्राणानां दयां न कुरुते हरिः । गजी गवाक्षो गवयो नलो नीलश्च वानरः ॥ ४७
एकक एव यूथाना कोटिमिर्दशभिर्वृतः । तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः ।।४९
न शक्यं ते बहुत्वात्तु सग्न्यातुं लघुविक्रमाः ।।
मर्वे महाराज महाप्रभावाः संर्व महाशैलनिकायकायाः ।
सर्व समर्थाः पृथिवी क्षणेन कर्तुं प्रविध्वम्नविकीर्णशैलाम् ।।५०

इत्यार्षे श्रीमद्रामायणे वाल्मीकी ये आदिकाव्ये चतुर्विशतिमह स्त्रिकायां संहितायाम युद्धकाण्ई हरादिवानरपगक्रमाख्यानं नाम सप्तविशः सर्गः अष्टाविंशः सर्गः मैन्दादिपराक्रमाख्यानम्

सारणस्य वच श्रुत्वा रावणं राक्षमाधिपम् । बलमादिश्य नत्सर्व' शुको वाक्यमथाब्रवीत् ।। १
स्थितान् पश्यसि यानेतान् मत्तानिव महाद्विपान् । न्यग्रोधानिव गाद्यान् सालान् हैवमतानिव ॥२
एते दुष्प्रसहा राजन् बलिनः कामरूपिणः । दैत्यदानवसंकाशा युद्धे देवपराक्रमाः ।।३
एषां कोटिसहस्राणि नव पञ्च च सप्त च । तथा शङ्खसहस्राणि तथा बृन्दशतानि च ॥४
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा । हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ॥५
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ । मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ॥६
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ । आशंसेते युधा लकामेतौ मर्दितुमोजसा ॥७