पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०९
सप्तविंशः सर्गः


घोषः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम् । एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् ॥ ४०
युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः । एनं शतसहस्राणां शतार्धं पर्युपासते ।।४१
यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः । यस्तु भीमां प्रवल्गन्ती चमूं तिष्ठति शोभयन् ॥ ४२
स्थितां तीरे समुद्रस्य द्वितीय इव भास्करः । एष दर्दुरसंकाशो विनतो नाम यूथपः ।।४३
पिबंश्चरति पर्णासां नदी नामुत्तमा नदीम् । षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः ।।४४
त्वामाह्वयति युद्धाय क्रोधनो नाम यूथपः । विक्रान्ता बलवन्तश्च यथा यूथानि भागशः ।। ४५
यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः । अवमत्य सदा सर्वान् वानरान् बलदर्पितान् ।। ४६
गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते । एनं शतसहस्राणि सप्ततिः पर्युपासते ।।४७
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् । एते दुष्प्रसहा घोरा बलिनः कामरूपिणः ॥ ४८
यूथपा यूथपश्रेष्ठा एषां यूथानि भागशः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे कपिबलावेक्षणं नाम षड्विंशः सर्गः

सप्तविंशः सर्गः

हरादिवानरपराक्रमाख्यानम्

तास्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् । राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ।।
स्निग्धा यस्य बहुव्यामा बाला लाङ्गूलमाश्रिताः। ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥
प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः । पृथिव्यां चानुकृप्यन्ते हरो नामैष यूथपः ॥३
यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः । द्रुमानुद्यम्य सहसा लङ्कारोहणतत्पराः ॥४
एष कोटिसहस्रेण वानराणां महौजसाम् । आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय ।।५
यूथपा हरिराजस्य किङ्कराः समुपस्थिताः। नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ॥६
असिताञ्जनसंकाशान् युद्धे सत्यपराक्रमान् । असंख्येयाननिर्देश्यान् परं पारमिवोदधेः ॥७
पर्वतेषु च ये केचिद्विषमेषु नदीषु च । एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः ॥८