पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


ततः शुश्रुवुराक्रुष्टं लङ्कायां काननौकसः । भेरीमृदङ्गसंघुष्टं तुमुलं रोमहर्षणम् ॥३
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः । अमृष्यमाणास्तं घोषं विनेदुर्घोषवत्तरम् ।।४
राक्षसास्तु प्लवङ्गानां शुश्रुवुश्चापि गर्जितम् । नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम् ।।५
दृष्ट्वा दाशरथिलङकां चित्रध्वजपताकिनीम् । जगाम मनसा सीतां दूयमानेन चेतसा ।। ६
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते । अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ।।७
दीर्घमुष्णं च निःश्वस्य समुद्रीक्ष्य च लक्ष्मणम् । उवाच वचनं वीरस्तत्कालहितमात्मनः ॥ ८
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण | मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ॥९
विमानैर्बहुभिर्लङ्का संकीर्णा भुवि राजते । विष्णोः पदमिवाकाशं छादितं पाण्डरैर्धनैः ॥ १०
पुष्पितैः शोभिता लङ्का वनश्चैत्ररथोपमैः । नानापतङ्गसंधुष्टैः फलपुष्पोपगैः शुभैः ॥ ११
पश्य मत्तविहङ्गानि प्रलीनभ्रमराणि च । कोकिलाकुलषण्डानि दोधवीति शिवोऽनिलः ॥ १२
इति दाशरथी रामो लक्ष्मणं समभाषत । बलं च तद्वै विभजञ्शास्त्रदृष्टेन कर्मणा ।। १३
शशास कपिसेनाया बलमादाय वीर्यवान् । अङ्गदः सह नीलेम तिष्ठेदुरसि दुर्जयः ॥ १४
तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः । आश्रित्य दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १५
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । तिष्ठेद्वानरवाहिन्याः सव्यं पार्श्वैः समाश्रितः ।।१६
मूर्ध्नि स्थास्याम्यहं युक्तो लक्ष्मणेन समन्वितः । जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ॥ १७
ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः । जघनं कपिसेनायाः कपिराजोऽभिरक्षतु ।। १८
पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः । सुविभक्तमहाव्यूहा महावानररक्षिता ।। १९
अनीकिनी सा विबभौ यथा द्यौः साभ्रसंप्लवा । प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान्॥ २०
आसेदुर्वानरा लङ्कां मिमर्दयिषवो रणे। शिख्ररैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा ।। २१
इति स्म दधिरे सर्वे मनांसि हरिसत्तमाः। ततो रामो महातेजाः सुग्रीवमिदमब्रवीत् ।। २२
सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् । रामस्य वचनं श्रुत्वा वानरेन्द्रो महाबलः।। २३
मोचयामास तं दूतं शुकं रामस्य शासनात् । मोचिनो रामवाक्येन वानरैश्वाभिपीडितः ॥२४
शुकः परमसंत्रस्तो रक्षोऽधिपमुपागमत् । रावणः प्रहसन्नेव शुकं वाक्यमभाषत ॥ २५
किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे। कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः ॥ २६
ततः स भयसंविग्नस्तथा राज्ञाभिचोदितः । वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम् ।। २७
सागरस्योत्तरे तीरेSब्रवं ते वचनं नथा। यथासंदेशमक्लिष्टं सान्त्वयञ्श्लक्ष्णया गिरा ।।२८