पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०३
चतुर्विंशः सर्गः


जयस्व शत्रून्नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः ।


इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ॥८९

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम

युद्धकाण्डे सेतुबन्धो नाम द्वाविंशः सर्गः

त्रयोविंशः सर्गः

लङ्काभिषेणनम्

निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः । सौमित्रिं संपरिष्वज्य इदं वचनमब्रवीत् ॥१
परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ।।२
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम् । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ।।३
वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा । पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः ।।४
मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः । क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥५
रक्तचन्दनसंकाशा सन्ध्या परमदारुणा । ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ।।६
दीना दीनस्वराः क्रूराः.सर्वतो मृगपक्षिणः । प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ।।७
रजन्यामप्रकाशस्तु संतापयति चन्द्रमाः । कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः ॥८
ह्रस्वो रुक्षोऽप्रशस्तश्च परिवेषः सुलोहितः । आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ॥९
रजसा महता चापि नक्षत्राणि हतानि च। युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण ।। १०
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च । शिवाश्चाप्यशिवान्नदान्नदन्ति सुमहाभयान् ॥११
शैलैः शूलैश्च खड्गैश्च विसृष्टैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ।। १२
क्षिप्रमद्यैव दुर्धर्षां पुरीं रावणपालिताम् । अभियाम जवेनैव सर्वतो हरिभिर्वताः ।। १३
इत्येवमुक्त्वा धर्मात्मा धन्वी संग्रामहर्षणः । प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥१४
सविभीषणसुग्रीवास्ततस्ते वानरर्षभाः। प्रतस्थिरे विनर्दन्तो निश्चिता द्विषतां वधे । १५
राघवस्य प्रियार्थं तु धृतानां वीर्यशालिनाम् | हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः ।।१६

इत्यर्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्त्रिकायां संहितायाम्

युद्धकाण्डे लङ्काभिषेणनं नाम त्रयोविंशः सर्ग:

चतुर्विशः सर्गः

रावणप्रतिज्ञा

सा वीरसमिती राज्ञा विरराज व्यवस्थिता। शशिना शुभनक्षत्रा पौर्णमासीव शारदी ।।१
प्रचचाल च वेगेन त्रस्ता चैव वसुंधरा । पीड्यमाना बलौघेन तेन सागरवर्चसा ।।२