पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०२
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


पुष्पिताग्रैश्च तरुभिः सेतुं बध्नन्ति वानराः। पाषाणांश्च गिरिप्रख्यान् गिरीणां शिखराणि च ॥
दृश्यन्ते परिधावन्तो गृह्य वारणसंनिभाः। शिलानां क्षिप्यमाणानां शैलानां च निपात्यताम् ।।
बभूव तुमुल: शब्दस्तदा तस्मिन् महोदधौ। कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६८
प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः । द्वितीयेन तथा चाह्ना योजनानि तु विंशतिः ।।६९
कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः । अह्ना तृतीयेन तथा योजनानि कृतानि तु ॥७०
त्वरमाणैर्महाकायैरेकविंशतिरेव च । चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि च ।।७१
योजनानि महावेगैः कृतानि त्वरितैस्तु तैः । पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥७२
योजनानि त्रयोविंशत्सुवेलमधिकृत्य वै। स वानरवरः श्रीमान् विश्वकर्माल्मजो बली ॥७३
बबन्ध सागरे सेतुं यथा चास्य पिता तथा। स नलेन कृतः सेतुः सागरे मकरालये ।।७४
शुशुभे सुभग: श्रीमान् स्वातीपथ इवाम्बरे । ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ।।७५
आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् । दशयोजनविस्तीर्णं शतयोजनमायतम् ॥७६
ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् । आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥७७
तदचिन्त्यमसह्यं च अद्भुतं रोमहर्षणम् । ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् ।।७८
तानि कोटिसहस्राणि वानराणां महौजसाम् । बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः ॥७९
विशाल: सुकृतः श्रीमान् सुभूमिः सुसमाहितः । अशोभत महासेतुः सीमन्त इव सागरे ॥८०
ततः पारे समुद्रस्य गदापाणिर्विभीषणः । परेषामभिघानार्थमतिष्ठत् सचिवैः सह ॥ ८१
सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम् । हनुमन्तं त्वमारोह अङ्गदं चापि लक्ष्मणः ।।८२
अयं हि विपुलो वीर सागरो मकरालयः । वैहायसौ युवामेतौ वानरौ तारयिष्यतः ।। ८३
अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः । जगाम धन्वी धर्मान्मा सुग्रीवेण समन्वितः ॥८४
अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः। सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे ।।८५
केचिद्वैहायसगताः सुपर्णा इव पुप्लुवुः । घोषेण महता तस्य सिन्धोर्घोषं समुच्छ्रितम् ॥ ८६
भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी । वानराणां हि सा तीर्णा वाहिनी नलसेतुना ॥८७
तीरे निविविशे राज्ञो बहुमूलफलोदके ।।

तदद्भुतं राघवकर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः ।


उपेत्य रामं सहसा महर्षिभिः समभ्यषिञ्चन सुशुभैर्जलैः पृथक् ॥८८