पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


गोसहस्रप्रदातारमुपधाय महद्भुजम् । अद्य मे मरणं वाथ तरणं सागरस्य वा ।।८
इति रामो मतिं कृत्वा महाबाहुर्महोदधिम् । अधिशिश्ये च विधिवत् प्रयतो नियतो मुनिः ।। ९
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले । नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ॥ १०
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः । उपासत तदा रामः सागरं सरितां पतिम् ।। ११
न च दर्शयते मन्दस्तदा रामस्य सागरः । प्रयतेनापि रामेण यथार्हमभिपूजितः ॥ १२
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः । समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम् ।। १३
अवलेपः समुद्रस्य न दर्शयति यत् स्वयम् । प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ॥ १४
असामर्थ्यफला ह्येते निर्गुणेषु सतां गुणाः । आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ॥ १५
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् । न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः १६
प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूर्धनि । अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् ।।१७
निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः । भोगिनां पश्य भोगानि मया छिन्नानि लक्ष्मण १८
महाभोगानि मत्स्यानां करिणां च करानिह । सशङ्खशुक्तिकाजालं समीनमकरं शरैः ॥१९
अद्य युद्धेन महता समुद्रं परिशोषये। क्षमया हि समायुक्तं मामयं मकरालयः ।। २०
असमर्थं विजानाति धिक् क्षमामीदृशे जने । न दर्शयति साम्ना मे सागरो रूपमात्मनः।। २१
चापमानय सौमित्रे शरांश्चाशीविषोपमान् । समुद्रं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः॥ २२
अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् । वेलामु कृतमर्यादं सहस्रोमिसभाकुलम् ।। २३
निर्मर्यादं करिष्यामि मायकैर्वरुणालयम् । महार्णवं क्षोभयिष्ये महानक्रसमाकुलम् ॥२४
एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः । बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन्॥ २५
संपीड्य च धनुर्घोरं कम्पयित्वा शनैर्जगत् । मुमोच विशिखानुग्रान् वज्रानिव शतक्रतुः ॥ २६
ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः। प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् ।। २७
तोयवेगः समुद्रम्य सनक्रमकरो महान् । संबभूव महाघोरः समारुतरवस्तदा ॥ २८
महोर्मिमालाविततः शङ्खशुक्तिसमावृतः । सधूमः परिवृत्तोर्भिः सहसासीन्महोदधिः ॥ २९
व्यथिताः पन्नगाश्चासन् दीप्तास्या दीप्तलोचनाः । दानवाश्च महावीर्याः पातालतलवासिनः ।।
ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा। विन्ध्यमन्दरसङ्काशाः सुमुत्पेतुः सहस्रशः ।।३१
आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः । उद्वर्तितमहाग्राहः संवृत्तः सलिलाशयः ॥ ३२