पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९८
एकविंशः सर्गः


गिरीशपादाम्बुजसंगतो वा हतोऽसि रामेण सहानुजस्त्वम्॥


तस्य ते त्रिषु लोकेषु न पिशाचं न राक्षसम् । त्रातारमनुपश्यामि न गन्धर्वं न चासुरम् ॥ २६
अवधीर्य जरावृद्धं गृध्रराजं जटायुषम् । किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य वा २७
हृता सीता विशालाक्षी यां त्वं गृह्य न बुध्यसे । महाबलं महाप्राज्ञं दुर्धर्षमसुरैरपि । २८
न बुध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति । ततोऽब्रवीद्वालिसुतस्त्वङ्गन्दो हरिसत्तमः ॥ २९
नायं दूतो महाराज चारिक: प्रतिभाति मा। तुलितं हि बलं सर्वमनेनात्रैव तिष्ठता ॥ ३०
गृह्यतां मा गमलङ्कामेतद्धि मम रोचते। ततो राज्ञा समादिष्टाः समुत्प्लुत्य बलीमुखाः ॥ ३१
जगृहुस्तं बबन्धुश्च विलपन्तमनाथवत् । शुकस्तु वानरैश्चण्डैस्तत्र तैः संप्रपीडितः ।।३२
व्याक्रोशत महात्मानं रामं दशरथात्मजम् । लुप्येते मे बलात्पक्षौ भिद्येते च तथाक्षिणी।। ३३
यां च रात्रिं मरिष्यामि जाये रात्रि च यामहम्। एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम्।। ३४
सर्वं तदुपपद्येथा जह्यां चेद्यदि जीविनम् । नाघातयत्तदा रामः श्रुत्वा तत्परिदेवनम् ॥ ३५
वानरानब्रवीद्रामो मुच्यतां दूत आगतः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे सुग्रीवभेदनोपायो नाम विंशः सर्गः

एकविंशः सर्गः

समुद्रसंक्षोभः

ततः सागरवेलायां दर्भानास्तीर्य राघवः । अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधिम् ॥
बाहुं भुजगभोगाभमुपधायारिसूदनः । जानरूपमयैश्चैव भूषणैर्भूपितं पुरा ॥२
वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः । भुजैः परमनारीणामभिमृष्टमनेकधा ॥३
चन्दनागरुभिश्चैव पुरस्तादधिवासितम् । बालसूर्यप्रतीकाशैश्चन्दनैरुपशोभितम् ॥४
शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा । तक्षकस्येव संभोगं गङ्गाजलनिषेवितम् ॥५
संयुगे युगसंकाशं शत्रूणां शोकवर्धनम् । सुहृदानन्दनं दीर्घं सागरान्तव्यपाश्रयम् ।।६
अस्यता च पुनः सव्यं ज्याघातविगतत्वचम् । दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम् ॥