पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९६
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


बलमाकाशमावृत्य सर्वतो दशयोजनम् । तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि ॥ ६
तव दूता महाराज क्षिप्रमहन्त्यवेक्षितुम् । उपप्रदानं सान्त्वं वा भेदो वात्र प्रयुज्यताम् ॥७
शार्दूलस्य वचः श्रुत्वा रावणो राक्षसेश्वरः । उवाच सहसा व्यग्रः संप्रधार्यार्थमात्मनः ॥८
शुकं नाम तदा रक्षो वाक्यमर्थविदां वरम् । सुग्रीवं ब्रूहि गत्वा त्वं राजानं वचनान्मम ॥ ९
यथासंदेशमक्लीबं श्लक्ष्णया परया गिरा ||

त्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरज:सुतश्च ।


न कश्चिदर्थस्तव नास्त्यनर्थस्तथा हि मे भ्रातृसमो हरीश ॥१०


अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः । किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम् ॥ ११
न हीयं हरिभिर्लङ्का शक्या प्राप्तुं कथंचन । देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ।। १२
स तथा राक्षसेन्द्रेण संदिष्टो रजनीचरः । शुको विहङ्गमो भूत्वा तृर्णमाप्लुत्य चाम्बरम् ॥ १३
स गत्वा दूरमध्वानमुपर्युपरि सागरम् । संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत् ।।१४
सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना । तं प्रापयन्तं वचनं तृर्णमाप्लुत्य वानराः ।। १५
प्रापद्यन्त दिवं क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः । स तैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः ॥ १६
गगनाद्भूतले चाशु परिगृह्य निपातितः । वानरैः पीड्यमानम्तु शुको वचनमब्रवीत् ।। १७
न दूतान् घ्नन्ति काकुत्स्थ वार्यन्तां साधु वानराः। यस्तु हित्वा मतं भर्तुः स्वमतं संप्रभाषते ॥१८
अनुक्तवादी दूतः सन् स दूतो वधमर्हति । शुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम् ॥१९
उवाच मा वधिष्टेति घ्नतः शाखामृर्गषभान् । स च पत्रलघुर्भूत्वा हरिभिर्दर्शिते भये ॥ २०
अन्तरिक्षस्थितो भूत्वा पुनर्वचनमब्रवीत् । सुग्रीव सत्त्वसंपन्न महावलपराक्रम ॥ २१
किं मया खलु वक्तव्यो रावणो लोकरावणः ।।

स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः ।


उवाच वाक्यं रजनीचरस्य चारं शुकं दीनमदीनसत्त्वः ।।२२


न मेऽसि मित्रं न तथानुकम्प्यो न चोपकर्तासि न मे प्रियोऽसि ।


अरिश्च रामस्य महानुबन्धः स मेऽसि वालीव वधार्ह वध्यः ।।२३


निहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश ।


लङ्कां च सर्वां महता बलेन क्षिप्रं करिष्यामि समेत्य भस्म


न मोक्ष्यसे रावण राधवस्य सुरैः सहेन्द्रैरपि मूढ गुप्तः ।


अन्तर्हितः सूर्यपथं गतो वा नभो न पातालमनुप्रविष्टः ॥२५