पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९५
विंशः सर्ग:


तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः। प्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ॥ २७
अब्रवीक्च्च हनूमांस्तं सुग्रीवश्च विभीषणम्। कथं सागरमक्षोभ्यं तराम वरुणालयम् ।। २८
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् । उपायं नाधिगच्छामो यथा नदनदीपतिम् ॥२९
तराम तरसा सर्वे ससैन्या वरुणालयम् । एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ।।३०
समुद्रं राघवो राजा शरणं गन्तुमर्हति। खानितः सगरेणायमप्रमेयो महोदधिः ।।३१
कर्तुमर्हति रामस्य ज्ञातेः कार्य महोदधिः । एवं विभीषणेनोक्तो गक्षसेन विपश्चिता ।। ३२
आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः। ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥ ३३
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् । प्रकृत्या धर्मशीलम्य राघवस्याप्यरोचत ॥३४
स लक्ष्मणं महातेजाः मुग्रीवं च हरीश्वरम् । सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमभाषत ॥३५
विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते। ब्रूहि त्वं महसुग्रीवस्तवापि यदि रोचते ॥ ३६
सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः | उभाभ्यां संप्रधार्यार्थं रोचते यत्तदुच्यताम् ।।
एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ। समुदाचारसंयुक्तमिदं वचनमूचतुः ।।३८
किमर्थं नौ नरव्याघ्र न रोचियति राघव । विभीषणेन यच्चोक्तस्मिन् काले सुखावहम् ॥३९
अबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये । लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥४०
विभीषणस्य शूरस्य यथार्थं क्रियतां वचः। अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् ।।
यथा सैन्येन गच्चेम पुरी रावणपालिताम् । एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः ॥ ४२
संविवेश तदा रामो वेद्यामिव हुताशनः ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

युद्धकाण्डे शरनल्पसवेशो नाम एकोनविंशः सर्ग:

विंशः सर्गः

सुग्रीवभेदनोपायः

ततो निविष्टां ध्वजिनी सुग्रीवेणाभिपालिताम् । ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ।।
चारो राक्षसराजस्य रावणस्य दुरात्मनः । तां दृष्ट्वा सर्वमव्यग्रं प्रतिगम्य स राक्षसः ।।२
प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् । एष वानरऋक्षौधो लङ्कां समभिवर्तते ।।३
अगाधश्चाप्रमेयश्च द्वितीय इव सागर । पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ ।।४
उत्तमायुधसंपन्नौ सीतायाः पदमागतौ । एतौ सागरमासाद्य संनिविष्टौ महाद्युती ।।५