पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/७५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६९४
श्रीमद्वाल्मीकिरामायणे युद्धकाण्डे


एकोनविंशः सर्गः

शरतल्पसंवेशः

राघवेणाभये दत्ते संनतो रावणानुजः । विभीषणो महाप्राज्ञा भूमिं समवलोकयन् ।। १
खात्पपातावनी हृष्टो भक्तैरनुचरैः सह । स तु रामस्य धर्मात्मा निपपात विमीपणः ।।२
पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः । अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः ॥ ३
धर्मयुक्तं च युक्तं च मनसः संप्रहर्षणम् । अनुजो रावणस्याहं तेन चास्म्यवमानितः ॥४
भवन्तं सर्वभूतानां शरण्यं शरणं गतः । परित्यक्ता मया लङ्का मित्राणि च धनानि च ॥५
भवद्गतं मे राज्यं च जीवितं च सुखानि च । तस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् ।।६
वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव । अख्याहि मम तत्त्वेन राक्षसानां बलाबलम्।। ७
एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा । रावणस्य बलं सर्वमाख्यातुमुपचक्रमे ।।८
अवध्यः सर्वभूतानां देवदानवरक्षसाम्। राजपुत्र दशग्रीवो वरदानात्स्वयंभुवः ॥९
रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् । कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ।। १०
राम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः । कैलासे येन संग्रामे माणिभद्रः पराजितः ।। ११
बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि । धनुरादाय तिष्ठन् स त्वदृश्यो भवतीन्द्रजितः ।। १२
संग्रामे स महाव्यूहे तर्पयित्वा हुताशनम् । अन्तर्धानगनः शत्रूनिन्द्रजिद्धन्ति राघव ॥ १३
महोदरमहापार्श्वै राक्षसश्चाप्यकम्पनः । अनीकपास्तु तस्यैते लोकपालसमा युधि ।।१४
दशकोटिसहस्राणि रक्षसां कामरूपिणाम् । मांसशोणितभक्षाणां लङ्कापुरनिवासिनाम ।। १५
स तैः परिवृतो राजा लोकपालानयोधयत् । सह देवैम्तु ते भग्ना रावणेन महात्मना ॥ १६
विभीषणवचः श्रुत्वा रामो दृढपराक्रमः । अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ।।१७
यानि कर्मापदानानि रावणस्य विभीषण । आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ॥
अहं हत्वा दशग्रीवं सप्रहस्तं सहानुजम् । राजानं त्वां करिष्यामि सत्यमेतद्ब्रवीमि ते।। १९
रसातलं वा प्रविशेत्पातालं वापि रावणः । पिनामहसकाशं वा न मे जीवन् विमोक्ष्यते ।।
अहत्वा रावणं संख्ये सपुत्रबलबान्धवम् । अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ॥ २१
श्रुत्वा तु वचनं तस्य रामस्य क्लिष्टकर्मणः । शिरसा वन्द्य धर्मात्मा वक्तुमेवोपचक्रमे ॥ २२
राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे । करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्।। २३
इति ब्रुवाणं रामस्तु परिष्वज्य बिभीषणम् । अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ।। २४
तेन चैनं महाप्राज्ञमभिषिञ्च विभीषणम् । राजानं रक्षसां क्षिप्रं प्रमन्ने मयि मानद ।। २५
एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् । मध्ये वानरमुख्यानां राजानं रामशासनात् ॥ २६